This page has not been fully proofread.

न्यायकोशः ।
 

 
मन्यन्त । मुख्यार्थबाधे तद्युक्तो ययान्योर्थः प्रतीयते । रूढे: प्रयोजनाद्वासौ
लक्षणा शक्तिरर्पिता ॥ ( सा० द० परि० २ श्लो० ५) इति ।
काव्यप्रकाशे तु लक्षणारोपिता क्रिया इति चतुर्थचरण: ( उल्ला० २) ।
लक्षणा पुनर्द्विविधा प्रयोजननिरपेक्षा प्रयोजनसापेक्षा चेति । तत्राद्या
यथा मार्गाश्चलन्ति इति । इयं प्रयोजनाभावेपि प्रवर्तमानत्वात् रूढलक्षणा
इत्युच्यते । द्वितीया यथा गङ्गायां घोषः इति । इयं च पावित्र्यादि-
प्रयोजनापेक्षया प्रवर्तमानत्वात् केवलं लक्षणा इत्युच्यते । मुख्यार्था
नुपपत्तिर्लक्षणाबीजम् ( प्र० च० ४ पृ० ४० ) इति । लक्षणाशब्दच
लक्षघातोर्युचप्रत्यये स्त्रियां टापि सिद्ध्यति । [ ख ] प्राञ्चस्तु शक्याद-
शक्योपस्थितिर्लक्षणा इत्याहुः । [ग] अन्ये तु अशक्ये तात्पर्य विषयत्वं
लक्षणा इत्याहु: ( न्या० म० ४ पृ० १० ) (त० प्र० ४ पृ० ३५ ) ।
[ घ शाब्दिकास्तु शक्यतावच्छेदकारोपो लक्षणा इत्यङ्गीचक्रुः ।
समासस्थशब्दसमुदाये राजपुरुष इत्यादौ तु विशिष्टार्थे समासरूपविलक्षण-
शक्त्यैवोपपत्तौ लक्षण । रूपातिरिक्तवृत्तिकल्पनमनुचितम् इति शाब्दिका
वदन्ति ( न्या० म० पृ० ११ ) ( त० प्र० ख० ४ पृ० ४३ ) ।
आरोपनिमित्तानि च गौतमेनोक्तानि यथा सहचरणस्थानतादर्ध्यवृत्तमान-
धारणसामीप्ययोगसाधनाधिपत्यानि ( गौ० २१२१६१ ) इति वैयाकरण-
सिद्धान्तः । वस्तुतस्तु सहचरणादीनि शक्यसंबन्ध प्राहकाण्येव नारोप-
निमित्तानि इति तु वयं प्रतीमः । [ ङ ] मीमांसकास्तु प्रतिपाद्यसंबन्धो
लक्षणा । यथा छत्रिणो यान्तीत्यादा
वजहलक्षणा । अत्र छत्रिन् इत्यस्य
मतुबर्थ केन्प्रत्ययान्ततया पदसमूहरूपत्वेन तच्छक्याप्रसिद्ध्या शक्यसंबन्ध-
रूपा लक्षणा न संभवति । अतः प्रतिपाद्यसंबन्धो हि लक्षणा इत्येतत्प-
र्यन्तानुधावनम् । अत्र केचिदाहुः । छत्रपदस्यैकसार्थे लक्षणा । तद्धितार्थः
संबन्धी । तथा च एकसार्थसंबन्धिनो गच्छन्ति इत्यन्वयबोध: ( नी० ४
पृ० ३०) । एवं च शक्यसंबन्धरूपलक्षणयैवोपपत्तौ प्रतिपाद्यसंबन्ध-
रूपलक्षणा नाङ्गीकर्तव्या इति । [च ] अन्ये च स्वबोध्यसंबन्धो लक्षणा ।
यथा चित्रगुरिति बहुव्रीहौ लक्षणा इत्याहुः । मीमांसकमते चित्रगुः इति
बहुव्रीही वाक्यस्यापि विशिष्टं बोध्यमस्ति ( न्या० म० ४ १० १ ) ॥