This page has not been fully proofread.

६९८
 
न्यायकोशः ।
 
गृहम् इति लक्षणहाने सति इदमेव देवदत्तगृहम् नान्यत् इत्यवधारण-
ज्ञानं जायते ( प्र० प० पृ० २ ) इति । ३ स्वरूपम् । यथा व्याप्ते-
लक्षणमाह यत्रेति ( त० दी० २ पृ० २० ) इत्यादौ । यथा वा जीव-
लक्षणमाह ( त० दी० ) इत्यादौ ( नील० १ पृ० ११ ) । यथा वा
पटलक्षणं वस्तु घटलक्षणं द्रव्यम् परमाणुलक्षणा नित्यपृथिवी इत्यादौ
च लक्षणशब्दस्यार्थ: स्वरूपम् । ४ प्रतिपाद्यो विषयः । यथा जैमिनि-
द्वदशलक्षण प्रणिनाय इत्यादौ । ५ आलोचनम् । यथा विलक्षणमित्यादौ
लक्षणशब्दस्यार्थः । तदर्थश्च हेतुशून्या स्थितिर्विलक्षणम् ( अमरटी०
३।२।२ ) । ६ अन्यदीयधर्मराहित्यम् । यथा विलक्षणं वस्त्विदम्
इत्यादौ लक्षणशब्दस्यार्थः । यथा वा बौद्धमते स्वलक्षणं स्वलक्षणम् इति
भावनाविषयो लक्षणपदार्थः । ७ शाब्दिकास्तु शब्दसाधुताप्रतिपादकं
प्रमाणम् । यथा व्याकरणादिसूत्रं लक्षणम् इत्याहुः । ८ व्यवहारज्ञास्तु
व्यवहारोपयोगि नाम इत्याहुः । ९ चिह्नम् इति काव्यज्ञा वदन्ति ।
लक्षणा - (वृत्तिः ) [क] न्यायमते स्वशक्यसंबन्धः (मा० प० लो० ८३)
( त० दी० ख० ४ ) ( न्या० बी० ४ ) ( न्या० म० ४ पृ० १०)
( वाक्य ० ) । तदर्थस्तु स्वं लाक्षणिकं पदम् गङ्गापदम् । तस्य शक्य:
प्रवाहः । तत्संबन्धः संयोगः इति ( त० प्र० ४ पृ० ३५ ) । सच
संयोगसमवायादिर्यथायथं ब्राह्मः । स्वशक्यसंबन्धश्च शब्दनिरूपितोर्थ-
निष्ठः शाब्दबोधप्रयोजक: शब्दार्थयोः संबन्धः । भीमांसकादयस्तु
वाच्यार्थसंबद्धार्थबोधकत्वरूप: शब्दनिष्ठः इत्याहुः । यथा गङ्गायां घोषः
प्रतिवसति इत्यादौ गङ्गापदस्य प्रवाहसमीपे तीरे लक्षणा (मु० ४ )
( वाक्य० ४) । गङ्गापदशक्यप्रवाहजलौघस्य तीरे संयोगसंबन्धो
गङ्गापदलक्षणा (त० कौ० ४ ) । अस्ति हि गङ्गापदशक्य: प्रवाह-
विशेषः तत्संबन्धस्तीरे इति ( न्या० म० ख० ४ पृ० १० ) । अत्र
अन्वयानुपपत्तिर्लक्षणाबीजम् इति प्राश्च भाडुः (मु० ४ ) । तात्पर्यानु-
पपत्तिरेव ( तात्पर्य निर्वाहिका ) सर्वत्र लक्षणाबीजम् इति नव्याः प्रादुः
( मा०प० श्लो० ८३ ) । लक्षणाप्रयोजकं चालंकारिकादय इत्थम-