This page has not been fully proofread.

न्यायकोशः ।
 
२३
 
विधि: ) [ क ] या निवारणाभावव्यक्जिका पूजा इच्छा
व्या० ५) । [ ख ] निषेधाभावव्यजिकेच्छा ( वै०
सा० द० ) । [ग] कर्तुरिष्टत्वे सति वक्रनुमतत्वम् । यथा पत्नी
पचत्वित्यादौ लोडर्थोनुज्ञा ( श० प्र० १४५ ) ।
 
- ( लिडर्थो
वा सा ( कु०
 
अनुतम् -वार्तिकम् । नित्याः शब्दार्थसंबन्धाः समानाता महर्षिमिः ।
सूत्राणां सानुतघ्राणां भाष्याणां च प्रणेतृमि: ॥ ( हरि: वाक्यपदीये
१।२३। )
 
-
 
अनुत्पत्तिसम: -- ( जाति: ) ( क ) प्रागुत्पत्ते: कारणाभाषादनुत्पत्तिसमः
( गौ० ५११।१२) । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादटवदित्युक्ते
अपर आह । प्रागुत्पत्तेरनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वमनित्यत्वकारणं
नास्ति । तदभावान्नित्यत्वं प्राप्तम् । नित्यस्य चोत्पत्तिर्नास्ति । अनुत्पत्त्या प्रत्य-
वस्थानमनुत्पत्तिसम: ( वात्स्या० ५ । १ । १२ ) । यथा वा घटो न नित्यो
जन्यैकत्वादित्यादौ कश्चिदाह । यदि जन्यैकत्वमनित्यत्वे प्रमाणं तदा घटे
एकत्योत्पत्तेः पूर्वं तदभावान्नित्यत्वम् । नित्यश्चेत्तर्झनुत्पन्न एवेति ( नील०
४४ ) । असिद्धघादिदेशनाभासोयमिति बोध्यम् ( गौ० वृ०५/१ । १२ )।
[ ख ] साधनाङ्गपक्षहेतुदृष्टान्तानामुत्पत्तेः प्राग्घेत्वभाव इति अनुत्पश्या
प्रत्यवस्थानम् । यथा घटो रूपवान्गन्धात्पटवदित्युक्ते घटोत्पत्तेर्गन्धोत्प-
तेच पूर्व हेत्वभावादसिद्धिः । पटे च गन्धोत्पत्तेः पूर्व हेत्वभावेन दृष्टा-
न्तासिद्धिः । एवमायक्षणे रूपाभावाद्वाघश्च । अनुत्पत्त्या प्रत्यवस्थानस्य
तत्रापि सत्त्वात् । उत्पत्तेः पूर्वं हेत्वाद्यभावेन प्रत्यवस्थानस्यैव लक्षण-
त्वात् ( गौ० दृ० ५/१।१२) । [ग] अनुत्पन्ने साधनाशे हेतुवृत्तेर-
भाषतः । भागासिद्धिप्रसङ्ग स्यादनुत्पत्तिसमो मतः ॥ ( ता० २० २
 
को० ११५) ।
अनुद्धर्षः– देशकाळानुकूल्येन
 
प्रियवस्त्वनुस्मरणेन वा जायमानं मनः-
शैथिल्यं तुष्टिः । अयमेवोद्धर्षः । तद्विपर्ययोनुद्धर्षः ( सर्वद० सं० पृ० १२४) ।
अनुभूतसम् - शुक्रत्वादिव्याप्यो धर्मः ( सि० च० १ पृ०४ ) (मु०
१ पृ०११९ ) । शिष्टं तु उद्भूतत्वशन्दव्याख्याने दृश्यम् ।