2023-02-20 00:56:28 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
1
इत्यवधेयम् ( ल० ५० ) । व्यवहारः शब्दव्यवहारः शब्दशक्तिग्रहः ।
लक्षणज्ञानस्य प्रयोजनं यथा सानादिमान् गौः इति लक्षणज्ञाने सति
यं यं सास्नादिमन्तं पिण्डं पश्यति तं तं गोशब्दवाच्यं प्रत्येति ( प्र०
प० पृ० २) इति । अत्रेदं बोध्यम् । सर्वे लक्षणं अभिधेयत्वादि-
वर्जम् व्यतिरेकिहेतुर्भवति । यथा पृथिवीलक्षणं गन्धवत्त्वम् । तथा च
विषादपदं पृथिवी गन्धवत्त्वात् यन्न पृथिवी तन्न गन्धवत् यथा आपः
इत्यादि ( त० भा० अनु० पृ० १३) । लक्षणस्य केवलव्यतिरेकि-
हेतुत्वे प्रयोगः । लक्षणं केवलव्यतिरेकिहेतुः विशेषधर्मत्वात् यत् केवल-
व्यतिरेकिहेतुर्न भवति तन्न विशेषधर्मो भवति यथा अभिधेयत्वम् । न
चेदं तथा । तस्मान्न तथा इति । अन्यदप्युदाह्रियते । गोः सास्नादि-
मत्त्वं लक्षणमित्युत्त्या गौः पक्षः महिष्याद्यात्मकेतरभेदः साध्यः ।
सास्नादिमत्त्वं हेतुः व्यतिरेकदृष्टान्तः । यथा गौरितरेभ्यो भिन्ना सास्त्रादि-
मत्त्वाद्यन्नैवं तत्रैवं महिष्यादिवत् इत्यनुमाने गोर्लक्षणं सास्नादिमत्त्वं
व्यतिरेकिहेतुरेव भवति । नान्वयिहेतुः । गोरितरत्र सानादिमत्वाभावेन
दृष्टान्ताभावात् इति । अत्रायं विशेषः । लक्षणलक्ष्यतावच्छेदकयोरैक्ये
सिद्धसाधनं दोषः संपद्यते । यथा अनुमितेर्लक्षणमनुमितित्वम् इत्युक्तौ
लक्षणेन लक्ष्ये अनुमितौ इतरभेदसाधने सिद्धसाधनम् / पक्षतावच्छेदक-
साध्यसामानाधिकरण्यस्यानुमितिविषयस्यानुमितेः पूर्वमेव हेतावव्यभि
चरितसाध्यसामानाधिकरण्यात्म कव्याप्तिज्ञाने भातत्वात् ( म० प्र० २
पृ० १५ ) । व्यावृत्तेः प्रयोजनस्वे पृथिव्यामितरभेदे साध्ये गन्धवस्वरूपं
लक्षणं हेतुर्भवति । लक्षणस्य लक्षणं तु लक्ष्यतावच्छेदकसम नियतस्त्रम् ।
यथा गोर्लक्षणस्य सास्नादिमत्त्वस्य लक्ष्यतावच्छेद की भूत गोत्वसम नियतत्वं
लक्षणं भवति इति विज्ञेयम् ( त० दी० ) ( ल० ० ) । [ख]
दूषणत्रयरहितो धर्मः ( त० भा० ) ( त० प्र० ) ( त० दी० )।
यथा गोर्लक्षणं सास्नादिमत्वम् । यथा वा विशुद्धमातापितृजन्यत्वं
ब्राह्मणस्य लक्षणम् (त० कौ० पृ० २१ ) । दूषणत्रयं च भव्याप्तिः
अतिव्याप्तिः असंभवश्व इति ( त० दी० ) ( त० कौ० ) । एते त्रयो
दोषा लक्षणदोषाः इत्युच्यन्ते ( ल० व० ) । एतेषां दूषकताबीजं तु
तु