2023-02-20 00:56:28 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
योग्यतापतेः । न हि तीरं नदी । तस्मादाक्यमेव तत्र गमीरनदीवीरस्य
लक्षकम् इति । अत्र सिद्धान्तविदः नैयायिकाः समुत्तिष्ठते । सीमां-
सकैर्यदुक्तं तत्र । नदीपदस्यैव गभीरनदीतीरात्मके विशिष्टे लक्षणा ।
गभीरपदं तु तात्पर्य ग्राहकमेव इति वाक्ये लक्षणा नास्त्येव ( मु० ४
पृ० १०१ ) ( न्या० म० ४ पृ० १२) इति । सैन्धवादयश्च
शब्दा: लवणादाविव तुरगादावपि शक्ता एव इति न ते लक्षका
भवन्ति । चटपटाद्यनुकरणस्य डुंफडादिस्तोमस्य च स्वानुभावक-
त्वमपभ्रंशानामिव शक्तिभ्रमादेव । अतो न तेषां लक्षकत्वम् इति
विज्ञेयम् ( श० प्र० श्लो० २३ टी० पृ० ३२ – ३३ ) । लक्षकं च
जहस्वार्थादि विविधलक्षणावत्वेनानेकविधम् । तथा हि जहरस्वार्थलक्षणया
तीरत्वादिना तीरादिबोधकं गङ्गादिपदम् । अजहत्स्वार्थलक्षणया द्रव्यत्वा-
दिना नीलघटत्वादिना च द्रव्यनीलघटादिबोधकं घटादिपदम् । निरूढ-
लक्षणया आरुण्यादिप्रकारेण तदाश्रयद्रव्यबोधकमरुणादिपदम् । आधुनि-
कलक्षणया ( स्वारसिकलक्षणया ) घटत्वादिना घटादिबोधकं पटपदम् ।
गौण्या लक्षणया अभिसदृशत्वादिना माणवकबोधकमयादिपदम् ( श०
प्र० लो० २४ टी० पृ० ३५ ) इति ।
लक्षणम् – १ [क] उद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मः ( बात्स्या० १।१।३) ।
यथा इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानं... प्रत्यक्षम् (वात्स्या० १२।१४ )
इति प्रत्यक्षलक्षणम् । त्रिविधा शास्त्रस्य प्रवृत्ति: उद्देश: लक्षणम् परीक्षा
चेति । तत्र उद्देशानन्तरं लक्षणम् । ततः परीक्षा । लक्षणस्य प्रयोजनं
च सर्वे हि लक्षणमितरपदार्थव्यवच्छेदकम् ( न्या० वा० १।१।१४
पृ० ८२ ) । पदार्थतत्वज्ञानं लक्षणस्य प्रयोजनम् इति तर्कभाषाया-
मुक्तम् ( त० भा० पृ० १ ) । व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयो-
जनमिति दीपिकायाम् ( त० दी० पृ० ५) (सि० च० ) । अत्रायं
विशेषो ज्ञेयः । लक्षणस्य व्यावृत्तिप्रयोजनकत्वे सप्तपदार्थेतरत्वाप्रसिद्ध्या
पदार्थसामान्यलक्षणस्य अभिधेयत्वस्य प्रयोजनं शब्दप्रयोग एव । व्यावृ
तेरत्रासंभवात् । अन्येषां लक्षणानां तूभयं व्यावृत्तिर्व्यवहारथ प्रयोजनम्