This page has not been fully proofread.

न्यायकोशः ।
 
लः- १ तिङ्शब्दचदस्यार्थोनुसंधेयः । अत्र लकारस्य कर्मलायर्थबोधने
सूत्रम् लः कर्मणि च भावे चाकर्मकेम्यः (पा० सू० ३।४।६९ ) इति ।
सच लकारो दशविधः लट् लिट् लुट् लृट् लेट् लोट् लड् लिङ् लुड्
ऌङ् इति । अयं व्याकरणशास्त्रप्रसिद्धः प्रत्ययो विज्ञेयः । संक्षेपत-
स्तदर्थस्तु लडर्तमाने लेडूदे भूते लङ्लुङ्लटस्तथा । विष्याशिषोश्च
लिङ्लोटी लब्लटी सुविष्यति ॥ इति । अयमत्र संग्रहः । कालो
द्विविधः अद्यतनः अनद्यतनश्च । अद्यतनस्त्रिविधः भूतः भविष्यन् वर्त-
मानश्च । अनद्यतनो द्विविधः भूतः भविष्यंश्चेति । तत्र वर्तमानस्त्रे लट् ।
भूतत्वमात्रे लुङ् । भविष्यत्तामात्रे लृट् । लिडर्थे लेट् । लिबर्येषु
आशिषि च लोट् । विध्यादौ लिङ् । हेतुहेतुमद्भावाद्यधिकार्थविवक्षाया-
मनयोर्लङ् । अनघतने भूते तत्त्वेन विवक्षिते लङ् । तत्रैव परोक्षत्व-
विषक्षायां लिट् । अनयतने भविष्यति लुट् (वै० सा०
पृ० १४७ ) इति । अयं लकार आख्यातम् इत्युच्यते ( म० प्र० ४
५० ५५ ) । २ एकलघुको वर्णविशेषः ल इति वैयाकरणा आहुः ।
३ इन्द्रः इति मेदिनीकार आइ । ४ भूमिदेवताको मन्त्रविशेषः इति
तान्त्रिका आडुः ।
 
ला -(धातुः ) आदानम् । यथा विट्ठल इत्यादौ । अत्र विग्रहः विदा ज्ञानेन
ठान् शून्यान् मुमुक्षून् लाति गृह्णाति स्वप्रसादपात्रतया इति विट्ठलः ।
लक्षकम् – (नाम ) यादृशार्थसंबन्धवति यन्नाम संकेतितं तदेव तादृशार्थे
लक्षकम् यदि तादृशार्थे शक्तिशून्यं भवेत् । यथा गङ्गायां घोषः प्रवस-
तीसादौ गङ्गादयः शब्दाः तीरादावसंकेतितास्तत्संबन्धिनीरादिशक्तत्वेन
गृहीता एव तीराद्यन्वयं बोधयन्ति इति तत्र लक्षका भवन्ति । अत्र
मीमांसका वदन्ति । पदमिव वाक्यमपि लक्षकम् । यथा गभीरायां नद्यां
घोषः इति पदकदम्बकं गभीरनदीतीरस्य लक्षकम् इति । अत्रायमाशयः ।
अत्र न केवलं नदीपदं तीरलक्षकम् । गमीरायाम् इत्यस्यानम्वयापत्तेः ।
न हि तीरं गमीरम् । नापि गमीरपदं तीरलक्षकम् । नबाम् इत्यस्या-