2023-02-20 00:56:27 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
मुद्भूतानुद्भूतभेदेनापि द्विविधम् । तत्रोद्भूतरूपमेव चक्षुर्विषः । तथ
घटपटादिचाक्षुषद्रव्ये तिष्ठति । अनुद्भूतं त्वप्रत्यक्षमेव । तच चक्षु-
रादौ तप्तवारिस्थतेजसि व तिष्ठति । रूपं पृथिव्युदकज्वलनवृत्ति ।
तत्र सलिलादिपरमाणुषु नित्यम् । पार्थिवपरमाणुष्वझिसंयोगविरोधि
पाकजमनित्यम् । सर्वकार्यद्रव्येषु कारणगुणपूर्वकम् । आश्रयविनाशादेव
विनश्यति ( प्रशस्त गुणनि० पृ० १२) इति १ २ तत्तद्वृत्तिरुद्दिष्ट-
धर्मः । यथा अनुमितिविरोधितावच्छेदकं रूपम् इत्यादौ । ३ आकारः ।
यथा घटरूपं द्रव्यमित्यादौ । एतस्य परिमाणकृताश्चत्वारो भेदाः ह्रस्वः
दीर्घः चतुरस्रः वृत्तश्च इति । स्पर्शकृतास्तु कठिनचिक्कणश्लक्ष्णपिङ्गल-
मृदुदारुणभेदेनाकारस्य भेदाः षड्डिधाः सन्ति ( वाच० ) । ४ स्वरूपम्
स्वभावो वा । यथा परमाणुरूपा नित्यपृथिवी इत्यादौ । ५ सादृश्यम् ।
यथा पितृरूपस्तनयः मातृरूपा कन्या इत्यादौ । स च रूपशब्दः
उत्तरपदस्थश्चेत्सदृशार्थको भवति इति ज्ञेयम् । ६ ज्योतिषज्ञास्तु एकाथ-
संख्यान्वितं वस्तु । यथा रूपं भजेत्स्यात्परिपूर्तिकाल: ( लीलावती )
इत्यादौ इत्याहुः । ७ गणकास्तु अव्यक्तरा शिसहचरित व्यक्तसंख्यान्वितं
वस्तु इत्याहुः । तदुक्तं बीजगणिते एकाव्यक्तं शोधयेदन्यपक्षाद्रूपाण्यन्य-
स्येतरस्माच पक्षात् इति । ८ केचिद्वेदान्तिनस्तु वाच्यम् विकार्यम्
ईश्वरस्याविद्यात्मकोपाधिविशेषो वा । यथा नामरूपे व्याकरवाणि
( छा० उ० ६।३।२ ) इत्यादौ इत्याहुः ( शारीर० २११११४ ) ।
९ शुक्रशोणितम् इति बौद्धा आहुः । १० नाटकादिदृश्यकाव्यम् इति
साहित्यशास्त्रज्ञा आहुः । ११ वैयाकरणास्तु शब्दधात्वादीनां विभक्त्यादि-
योगेन निष्पन्नशब्दः । यथा रामः करोति इत्यादौ । यथा वा सुधी
उपास्यः इति स्थितौ यण् इत्यादेशे जाते सुभ्युपास्यः इति रूपं सिद्ध्यति
इत्यादौ इत्याहुः । १२ शृङ्गारकाव्यज्ञास्तु सौन्दर्यम् इत्याहुः । तल्लु-
क्षणमुज्ज्वलमणिनोक्तम् अङ्गान्यभूषितान्येव केनचिद्भूषणादिना । येन
भूषितवद्भान्ति तद्रूपमिति कथ्यते ॥ ( वाच० ) इति ।
रूपस्कन्धः - रूप्यन्त एभिर्विषया इति रूप्यन्त इति च व्युत्पत्या सवि-
षयाणीन्द्रियाणि रूपस्कन्धः ( सर्व० सं० पृ० ४० बौ० ) ।
-