This page has not been fully proofread.

न्यायकोशः ।
 
प्राद्यावं लौकिकविषयताश्रयत्वम् । तेन गुरुत्वादीनां चक्षुषा अलौकिक
प्रहेपि नातिव्याप्तिः । न वा रूपस्येतरेन्द्रियेणालौकिकमहेप्यसंभवः
( वाक्य० १ पृ० ६) इति । जन्यत्वं चेतरनिरूपित्तमसाधारणं ब्राह्मम् ।
तथा च चक्षुरितरेन्द्रियजन्यग्रहीयलौकिक विषयताशून्यत्वे सति चक्षुर्जन्य-
ग्रहीयलौकिकविषयताशालित्वे च सति विशेषगुणत्ववत् । अत्र संयोगादि-
वारणाय प्रथमं सत्यन्तं दत्तम् । गुरुत्वादिवारणाय द्वितीयं सत्यन्तं
दत्तम् । रूपत्वादिवारणाय गुणत्वं दत्तम् । प्रभाभित्तिसंयोगादि-
वारणाय विशेष इति पदं दत्तम् इति विज्ञेयम् (बाक्य० ११०६)।
वस्तुतः [ ङ ] त्वगमाह्यचक्षुर्माह्यगुणविभाजकधर्मवत् । तेन न
परमाणुरूपे अव्याप्तिः इति विज्ञेयम् ( वाक्य ० १ पृ० ६ ) । अथ वा
[ च ] चक्षुर्ब्रहणवृत्तिगुणत्वावान्तरजातिमत् ( वै० उ० ३।१।१ ) ।
[ छ] चक्षुर्मात्रप्रायजातिमान् गुणः । अत्र गुणपदं प्रभावारणाय दत्तम् ।
( त० कौ० १ पृ० ४ ) । स च गुणः सप्तविधः शुक्ल: नीलः पीतः रक्तः
हरितः कपिशः चित्रः इति । केचिच्चित्ररूपं नाङ्गीकुर्वन्ति ( त० कौ० १
पृ० ४ ) । सिद्धान्तस्तु नीलपीतादिरूपकदम्बस्य चित्ररूपजनकत्वम-
ध्यक्षसिद्धम् ( न्या० ली० १० १२) इति चित्ररूपमङ्गीकर्तव्यम् ।
अयं भावः । पटादिप्रत्यक्षान्यथानुपपत्त्या चित्ररूपमवश्यमङ्गीकार्यम् ।
तथा हि द्रव्यविषयकलौकिकचाक्षुषप्रत्यक्षं प्रति रूपं कारणम् इत्यनुभव-
सिद्धः कार्यकारणभावः स्वीकार्यः । तथा च चित्ररूपानङ्गीकारे रूपस्य
दैशिकव्याप्यवृत्तित्वनियमादेकस्मिन्पटे नानारूपानङ्गीकारेण रूपसामान्या-
भावप्रसङ्गापट प्रत्यक्षस्यानुपपत्तिः ( त० दी० १ पृ० १२) इति ।
तच रूपम् पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् पाकजम्
अनित्यं च । अयं भावः । कचित् पाकजम् कचित्तु अपाकजम् एवमु-
भयविधमपि पृथिव्यां तिष्ठति । तथा च पाकजन्यस्यापाकजन्यस्य अवयव -
गतरूपजन्यस्य चोभयविधस्याप्यनित्यत्वम् इति । जले तेजसि च शुक्
मेव रूपं तिष्ठति । तञ्चापाकजम् नित्यमनित्यं च । नित्यगतं नित्यम् ।
अनित्यगतमनित्यम् । भास्वरा भास्वरभेदेन द्विविधं च । शुकं भाखरं
तेजसि । अभास्वरं शुकं जले ( त० भा० ) ( त० सं० ) 1 रूप-