This page has not been fully proofread.

न्यायकोशः ।
 
६८९
 
-
 
रूपत्वम्-नीलसमवेतगुणत्वापरजातिः ( सर्व० सं० पृ० २२० औ ) ।
रूपम् – १ ( गुणः ) [ क ] चक्षुर्मात्रग्रहणो योर्थस्तत् । तञ्च बायैकेन्द्रिय
ग्राह्यम् (३० उ० ३ । १ । १ ) द्रव्याद्युपलब्धिकारणम् नयनसहकारि च
भवति ( भा०प० श्लो० १०१ ) ( प्रशस्त ० ) । परमाणुगतं तु रूपं
न प्रत्यक्षम् । एवं रसगन्धादिकमपि बोध्यम् । अत्र प्राञ्चो नैयायिका
आहुः । द्रष्यगुणकर्मसामान्यानां चाक्षुषं स्पा 'नं च प्रत्यक्षं प्रति रूपं
कारणम् इति कार्यकारणभावः । तेन वायौ रूपाभावान स्पार्शनप्रत्यक्षम्
इति । नव्यास्तु चाक्षुषे द्रव्यप्रत्यक्षे एव रूपं कारणम् इति कार्यकारण-
भाषः । तेन वायौ रूपाभावेपि स्पार्शनप्रत्यक्षमुपपद्यते इत्यङ्गीचक्रुः
( भा०प० श्लो० ५७) (मु० १ पृ० ११३ ) । अत्रेदं बोध्यम् ।
रूपस्य चाक्षुषप्रत्यक्षे च मध्यमं महत्परिमाणम् उद्भूतत्वम् अनभि
भूतत्वम् रूपत्वं च प्रयोजकम् । तत्र महापरिमाणं तु सामानाधिकरण्य-
संबन्धेन इति ज्ञेयम् । तेन परमाणौ महत्परिमाणाभावेन तद्वृत्तिरूपस्य
प्रत्यक्षनिवारणम् । चक्षुर्वृत्तिशुकरूपस्यानुद्भूतत्वेन तादृशरूपस्य प्रत्यक्ष-
निवारणम् । वैश्वानरे मरकतकिरणादौ च विद्यमानस्य शुक्लरूपस्य
वैश्वानरा दिसंबद्धपार्थिवरूपेणाभिभवात्प्रत्यक्षनिवारणम् । रसस्पर्शादौ
रूपत्वविरहाच्चाक्षुषत्वाभावः ( वै० उ० ४/१/८ )
उ० ४।११८ ) ( मु० १
तेजोनि० पृ० ७८) इति । चक्षुर्मात्रग्रहणो योर्थ इत्यत्र अर्थशब्देन
धर्मी भावभूत उच्यते । तेन गन्धवादौ गन्धाद्यभावे च नातिव्याप्तिः
( वै० उ० ३ । १ । १ ) । द्रव्यादित्रयमेवार्थः इति काश्यपनिर्णयः । अतो
रूपादिसामान्यैर्नातिव्याप्तिर्भविष्यति ॥ (ता० र० श्लो० ४१ - ४२) इति ।
काश्यपः कणादः । [ ख ] चक्षुर्मात्रबहिरिन्द्रियग्राह्यजातिमत् ( वै० उ०
७१११६ ) । तादृशी जातिश्च रूपत्वादिः । [ ग ] नीलसमवेतगुणत्वा-
परजातिमत् ( सर्व० पृ० २२० औलू० ) । [घ ] चक्षुर्मात्र•
ब्राह्मो विशेषगुण: ( त० कौ ० ) ( त० सं० ) ( प्रशस्त ० ) । तदर्थश्च
इतरेन्द्रियाग्राह्यत्वं मात्रपदार्थः । चक्षुषश्चेतरत्वे ग्रहे चान्वयः । अथ वा
चित्रगुरित्यादौ गोपदस्थेव ग्राह्यपदस्यैव चक्षुरितरेन्द्रियामाह्यत्वविशिष्ट-
चक्षुर्माह्यत्वविशिष्टे लक्षणा । अवशिष्टपदे तात्पर्यग्राहके । उभयत्र
८५ न्या१ को०