This page has not been fully proofread.

निरूढकक्षणा इति व्यवहारः । अन्यथा बाधप्रयोजनामावे रूढिशक्तिरेव ।
यचा कुशरूपदे तैलपदे च इत्याहुः (ल० म० आकासावि० पृ० १४) ।
यत्र तैलपदस्य तिलविकारद्रव्ये शक्तस्य सार्षपादौ निरूढलक्षणा । शिष्टं
तु निरूढलक्षणाशब्दे दृश्यम् ।
 
रूढ़ि:- १ ( शब्दशक्तिः ) [ क ] समुदायशक्ति : ( त० दी ० ४ ) । यथा
मण्डप इत्यादिपदे रूढिः शक्तिः । अत्र मकारादिवर्णानुपूर्वीकत्वेन शक्त्या
अमाश्रयो बोयते इति विज्ञेयम् । [ ख ] शाब्दिकास्तु शास्त्रककल्पिता-
चयवार्था प्रतीतौ यदर्थनिरूपितं प्रकृतिप्रत्ययसमुदायमात्रे बोधकत्वम्
तत्पदे सा तदर्थनिरूपिता रूढिः । यथा मणिनूपुरादौ इत्याहुः ( ७० म०
कादिवि० पृ० १२) । अत्र कुमारभट्ट आह लब्धात्मिका सती
रूढिर्भवेद्योगापहारिणी। कल्पनीया तु लभते नात्मानं योगबाधतः ॥ इति ।
तदर्थस्तु लब्धात्मिका कॢप्ता शक्तिर्योगबाधिका । कल्पनीया तु योग-
बाध्या (वाच० ) इति । २ जन्म । ३ प्रसिद्धिः इति काव्यज्ञा आहुः ।
रूढिलक्षणा - निरूढलक्षणाशब्दवदस्यार्थोनुसंधेयः ।
 
-
 
रूप - ( धातुः ) प्रमाणोपन्यासेन स्वरूपादिकथनम् । यथा रूपयति अरु-
रूपत् इत्यादौ धाम्बर्थः ।
 
रूपकम् – १ मूर्तम् । २ शुकादिवर्णविशेषः । ३ आकारः । ४ साहित्यशा
स्त्रज्ञास्तु अभिनयप्रदर्शको दृश्यकाव्यविशेषः । यथा शाकुन्तलादि इत्याहुः ।
रूपकस्य दशविधा भेदाः । नाटकमथ प्रकरणं भाणव्यायोगसमबकार-
डिमाः । ईहामृगाङ्कवीथ्यः प्रहसन मिति रूपकाणि दश ॥ इति । तस्य
रूपकसंज्ञाहेतुमाह तद्रूपारोपातु रूपकम् इति । तद्दृश्यं काव्यम् इति ।
यथा नटे रामादिस्वरूपारोपात् रूपकम् इत्युच्यते ( सा० द० परि ६
श्लो० २७३-२७४) । ५ आलंकारिकास्तु अर्थालंकारविशेषः
इत्याहुः । तक्षणं तु रूपकं रूपितारोपाद्विषये निरपड़वे ( स०
८० परि० १० लो० ६६९ ) इति । ६ गणकास्तु गुञ्जात्रयपरिमाणम्
इस्याहुः । अत्रोच्यते संचाली प्रोच्यते गुञ्जा तास्तिस्रो रूपकं भवेत्
( युक्तिक ० ) इति । ७ राजतो नाणकविशेष इत्याधुनिका व्यवहरन्ति ।
 
.