This page has not been fully proofread.

स्यायकोकः ।
 
स्यात् घूमो वह्निजन्यो न स्याद्वा इत्यापादनम् । अत्राप्रयोजकशा च
पक्षे हेतुरस्तु साध्यं मास्तु इति पर्यवसिता । तत्रानिष्टप्रसङ्गध सिद्धम्या
प्तिकयोधर्मयोप्यामी कारेणा निष्टव्यापक प्रसञ्जनम् ( त० मा० ४३) ।
अनुकरणम् – सदृश क्रिया दिकरणम् । तत्र गुणक्रियावयवादिभिः सदृशीक-
रणम् । यथा चटचट इत्यनुकरणम् (वाच० ) । अत्रेदं ज्ञेयम् । अनु-
करणत्वं च शब्दमात्रतात्पर्यकोच्चारणविषयकत्वम् । यथा इतिशब्दसममि-
व्याहारे गौरित्याह इत्यादौ । इदं चानुकरणं पदार्थविपर्यासकद्भवति ।
अर्थबोधकं न भवतीत्यर्थ: ( ल० म० ) ।
 
अनुकल्प:-
.१ गौणकल्पः । यथा भार्या: कार्या: सजातीयाः सर्वेषां श्रेय-
स्यः स्युरिति मुख्यः कल्पः । ततोनुकल्पस्तु चतस्त्रो ब्राह्मणस्येत्यादिः
( पैठीनसिस्मृति: ) । २ प्रतिनिधिः । यथा यवाद्यभावे गोधूमाः मध्वा-
द्यभावे गुडादयः ( वाच० ) ।
 
-
 
अनुकूललम् - १ प्रयोजकत्वम् । यथा फलानुकूलव्यापार इत्यादौ ।
२ इच्छाविषयत्वम् । यथा निरुपाभ्यनुकूलवेद्यं सुखमित्यादौ (प० च० ) ।
अनुकूलवेदनीयम् -[ क ] इष्टसाधनताज्ञानानषीनेच्छाविषयः । [ ख ]
इतरेच्छानधीनेच्छाविषय: ( न्या०बी० ४ ) । यथा सुखम् । अत्रेदं
बोध्यम् । सुखानन्तरमिष्टफलान्तरस्याभावेन सुखेच्छा (यागेच्छावत् )
नेष्टसाधनत्व प्रकारकज्ञानेनोत्पद्यते अपि तु सुखत्व प्रकार कच्चा नेनैवोत्पद्यते
इति ( न्या० बो० ४ ) ।
 
-
 
अनुक्लृप्तिः - लक्षणम् । यथा कारणान्तरानुकृप्तिवैधर्म्याञ्चेत्यादौ ( बै०
 
२। १।२२ ) ।
 
अनुगमः - अनुगतप्रवृत्तिनिमित्तम् ( ग० अव० ) । यथा सर्वेषां घटानाम-
नुगमो घटत्वम् ।
 
अनुग्रहः
 
-
 
- [ क ] अभीष्टसंपादनेच्छारूपः प्रसादः । [ख] अनिष्टनिया-
रणपूर्व केष्टसाधनेच्छारूपाभ्युपपत्तिः । यथा निमहानुग्रहे शक्तः प्रभु-
रिव्यभिधीयत इत्यादौ ( वाच० ) ।