2023-02-20 00:56:25 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
६८७
च हरिसंप्रदानिका भक्तिकर्तृका रुचिः इति बोषः । हरिनिष्ठा-या भक्ति-
विषया प्रीतिः तदनुकूलो भक्तिनिष्ठो व्यापारः इति यावत् ( ल० म०
का० ४ पृ० १०२) २ आसङ्गः । ३ अभिलाषः । ४ किरणः ।
५ शोभा ।
६ बुभुक्षा । ७ गोरोचना चेति काव्यज्ञा आहुः ।
८ प्रजापतिविशेषः इति पौराणिका आहुः । ९ आलिङ्गन विशेषः इति
कामशास्त्रज्ञा अङ्गीचक्रुः ( वाच० ) ।
-
रुद्रः - १ अष्टमी तिथि: । कामशब्दे दृश्यम् । २ एकादशी तिथि: ( पुरु०
पृ० ३७ ) । ३ एकादशभेदभिन्न ईश्वरविशेषः । एकादशमेदाश्च यथा
वीरभद्रश्च शंभुव गिरिशश्च महायशाः ॥ अजैकपादहिर्बुध्न्यः पिनाकी
चापराजितः ॥ भुवनाधीश्वरश्चैव कपाली च विशांपतिः । स्थाणुर्भवश्च
भगवान् रुद्रास्त्वे कादश स्मृताः ॥ ( याज्ञ० अ० २ श्लो० १०२ मिता०) ।
रूढम् – १ (नाम) [क] यत्रावयवशक्तिनैरपेक्ष्येण समुदायशक्तिमात्रेणार्थो
बुध्यते तत्पदम् । यथा गोमण्डलादिपदम् (मु० ख० ४ पृ० १७९ )
( त० प्र० ख० ४ पृ० ३० ) । [ ख ] रूढिशक्तिमात्रेणार्थप्रति-
पादकं पदम् । यथा गोपदघटादिपदम् ( नील० ४ पृ० ३१ ) ।
[ग] यन्नाम यादृशार्थे संकेतितमेव न तु यौगिकमपि तद्रूढम् । यथा
गोप्रभृत्यर्थे गवादिशब्दो रूढः ( श० प्र० श्लो० १५ पृ० १८) ।
अत्र गमेर्डो: ( उणा० सू० २१६७) इत्यौणादिकप्रत्ययस्य शक्तिविरहेण
यौगिकत्वविरहात् गकारोत्तरौ कारत्वाद्यानुपूर्वी कत्वेनैवार्थबोधकत्वम् । रूढं
संज्ञा इति पदेनाभिलप्यते ( श० प्र० श्लो० १६ टी० पृ० १९) । अतः
रूढ इति शब्दस्य विभाग: संज्ञाशब्दव्याख्याने दृश्यः । [ घ ] प्रकृ-
तिप्रत्ययार्थमनपेक्ष्य समुदायशक्त्यार्थबोधकम् । २ जातम् । ३ प्रसिद्धम्
इति काव्यज्ञा आहुः ।
+
रूढयौगिकम् – (नाम) यौगिकरूढशब्दवदस्यार्थोनुसंधेयः ( श० प्र०
-
श्लो० १५ ) ।
रूढलक्षणा- [ क ] निरूढलक्षणाशब्दबदस्यार्थोनुसंधेयः । [ख] शाब्दि-
कास्तु असति प्रयोजने शक्यार्थबाधप्रतिसंधान पूर्वक तत्संबन्ध्य परार्थबोधे