This page has not been fully proofread.

न्यायकोशः ।
 
स च रसः पृथिवीजलवृत्तिः । तत्र पृथिव्यां मधुरादिषट्प्रकार: पाकजः
अनित्यश्च । अप्सु मधुरः अपाकजो नित्यानित्यात्मा । जलपरमाणुगतः
नित्यः । ड्यणुकादिजलगतः अनित्यः ( त० भा० प्रमेयनि० पृ० ३२ )
( प्रशस्त ० पृ० १२) ( त० सं० ) । अत्रेदं बोध्यम् । जले मधुर
एव रसोस्ति । जम्बीररसादावम्लत्वग्रहस्त्वौपाधिकः जम्बीरगतोम्लस्तद्गत-
जले परंपरया प्रतीयते ( वाक्य ० १ पृ० ७ ) ( मु० १ पृ०
७६ ) इति । २ रसायनशास्त्रज्ञास्तु सारः । यथा ओषधीनां रसः
( ताण्ड्यब्राह्मणम् ) इत्यादौ गुडमधूकपुष्पबकुलत्यग्बदरीमूलादिभवः
सारः इत्याहुः । सारोत्र मदिरा । अलंकारशास्त्रे तु धर्मदत्त आह रसे
सारश्चमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्रायद्भुतो रसः ॥
( सा० ६० परि० ३ ० ३३ टी० पृ० १७ ) इति । ३ देहस्थो
मुक्तान्नादेः प्रथमपरिणाम इति भिषज आहुः । अत्रोच्यते भावप्रकाशे
यत्पाथो रसधातुर्यस्ततोभवदपां रसः । सद्रवं सकलं देहं रसतीति रसः
स्मृतः ॥ इति । अथ रसस्य स्वरूपमाह सम्यक्पकस्य मुक्तस्य सारो
निगदितो रसः इति ( वाच० ) । ४ आलंकारिकास्तु विभावानुभाव--
संचारिभावव्यङ्ग्यो रत्यादिस्थायिभावकः शृङ्गारादिर्नवविधः रस इत्याहुः ।
तक्षणं चोक्तम् विभावेनानुभावेन व्यक्तः संचारिणा तथा । रसतामेति
रत्यादिः स्थायी भावः सचेतसाम् ॥ इत्यादि ( सा० द० परि० ३
श्लो० ३२ पृ० १६) । नवविधस्तु शृङ्गारहास्य करुण रौद्रवीरभयानकाः ।
बीभत्सोद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ॥ ( सा० ६० परि०
३ श्लो० २०९) इति । वत्सलायं दशममपि रसं मुनीन्द्रादयोङ्गी-
चक्रुः ( सा० द० परि० ३ श्लो० २४१ पृ० ६५ ) । ५ ब्रह्मण'
आनन्द: ज्ञानं वा रसः यथा रसो वै सः रस होवायं लब्ध्वानन्दी
भवति ( तैत्ति० उप० २१७) इत्यादौ इति वेदान्तिन आहुः ।
अत्रालंकारिका आहुः । सखोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः ।
वेद्यान्तरस्पर्शशून्यो ब्रह्माखादसहोदरः ॥ ( सा० द० परि० ३ लो०
३३ पृ० १६) इति ।