This page has not been fully proofread.

न्यायकोशः ।
 
-
 
रसः – १ ( गुणः ) [ क ] रसनग्रहणो योर्थः सः (बै० उ० ३।१।१
प्रशस्त ० १० १२ ) । अत्र अर्थशब्देन धर्मी भावभूत उच्यते । तेन
रसत्यादौ रसाद्यभावे च नातिव्याप्तिः । स च बाह्मैकेन्द्रियप्रायः
(बै० उ० ३।१।१ ) रसनसहकारी च ( प्रशस्त ० १० १२ ) ।
लक्षणं तु रसत्वमेव । तच रसनग्राह्यगुणविभाजकधर्मवत्त्वम् (वाक्य० १
पृ० ७ ) ( वै० उ० ७।१।६ ) । अत्र व्युत्पत्तिः रस्यते आखाद्यते
इति रसः ( कर्मणि प्रत्ययः ) । [ ख ] रसनग्राह्यो गुणः ( त० भा० )
( त० सं० ) । अत्र निष्कर्षस्तु रसनग्रहणवृत्तिगुणत्वावान्तरजाति-
मस्वम् इति । तेन नातीन्द्रियरसाद्यसंग्रहः (वै० उ० ३ । १।१ ) ।
[ग] रसनमात्र प्रायजातिमान् ( त० कौ० १ पृ० ४ ) । अत्र
 
रसनप्रायां रसादिगतां सत्तां जातिमादाय द्रव्यादावतिव्याप्तिवारणाय
मात्र इति पदं दत्तम् । [घ ] रसवृत्तिगुणत्वसाक्षाद्याप्यजातिमान्
(वै० उ० ७११।६ ) । सा च जातिः रसत्वम् । रसः षडिधः मधुरः
अम्लः लवणः कटुः कषायः तिक्तश्च इति । द्रव्यगतमधुरादिषडिधरसानां
कारणादिकमुच्यते सुश्रुतग्रन्थे । स खल्वाप्यो रसः शेषभूतसंसर्गाद्वि-
भक्तः षोढा विभज्यते । तद्यथा मधुरोम्लो लवणः कटुकस्तिक्तः कषायः
इति । ते च भूयः परस्परसंसर्गात् त्रिषष्टिधा (६३) भिद्यन्ते । तत्र
(१) भूम्यम्बुगुणबाहुल्यान्मधुरः । (२) भूम्यग्निगुणबाहुल्यादम्लः ।
(३) तोयाग्निगुणबाहुल्यालवणः । ( ४ ) वाथ्वग्निगुणबाहुल्यात्कटुकः ।
(५) वाय्वाकाशगुणबाहुल्यात्तिक्तः । (६) पृथिव्यनिक गुणबाहुल्या-
त्कषायः इति । तत्र मधुराम्ललवणा वातघ्नाः । मधुरतिक्तकषायाः
पित्तघ्नाः । कटुतिक्तकषायाः श्लेष्मघ्नाः । तत्र वायुरात्मनैबात्मा पित्त-
माग्नेयम् श्लेष्मा सौम्यः इति । त एव रसाः स्वयोनिवर्धनाः अन्ययोनि-
प्रशमनाच ( सुश्रुते० रसविशेष ० ) । केचिदाहुः । अग्नीषोमीयत्वाज्जगतो
रसा द्विविधाः सौम्याः आग्नेयाश्च । तत्र मधुरतिक्तकषायाः सौम्याः
कटुम्बुलबणा आग्नेयाः । मधुराम्ललवणाः स्निग्धाः गुरवश्च । कटुतिक्त-
कषाया रूक्षा लघवश्च । सौम्याः शीता: आग्नेयाश्रोष्णाः ( सुश्रु० ) ।