This page has not been fully proofread.

A
 
रक्तः -१ (गुणः ) रूपविशेषः । यथा रक्तो घट इत्यादी । अत्र रक्त-
पदस्य शक्तिबोध्योर्थो रक्तरूपमेव । तथापि रक्तघटयोः सामानाधिकरण्या-
नुरोधेमात्र रक्तपदस्य रक्तरूपबति लक्षणा न्यायमसे स्वीक्रियते । तेन
रक्तरूपबदमिनो घटः इति शाब्दबोधः । शाब्दिकास्तु युगमवनम्यो
मतुपो लुगिष्टः इति बार्तिकेन लुप्तेन मतुपैव विशिष्टार्थी बोप्यते इति
रक्तपदस्थात्र शत्र्यैष बोध्योर्यो गृह्यते । नात्र लक्षणा स्वीकार्थी इत्याहुः ।
२ शरीरस्थो रसपाकजन्यो मांसहेतू रुधिराज्यो धातुविशेषः । तस्वरू
पमुक्तं भावप्रकाशे यथा यदा रसो यकृयाति सत्र रजकपन्ततः 1 रागं
पाकं च संप्राप्य स भवेद्रक्तसंज्ञकः ॥ इति ।
 
रक्षणम्-
-त्राणम् ।
 
रजः - [क] जगत्कारणे या दुःखात्मता तद्रजः ( सर्व० सं० १० ३२६
सां० )। [ख] जालसूर्यमरीचिस्थं त्रसरेणू रजः सुतम् ( याज्ञ-
वल्क्य० अ० १ श्लो० ३६२ ) ।
 
-
 
स्वनी -तत्वरा रजनी शैया ( पुरु० पृ० ७६ ) तत्पस सायंकालापस ।
रखत्रयम् - रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितयमर्हत्प्रवचन-
संग्रहपरे परमागमलारे प्ररूपितं सम्म दर्शनशान चारित्राणि मोक्षमार्गः
( सर्व० सं० पृ० ६२ आई० ) इति ।
 
रथकारः – वैश्याय क्षत्रियादुत्पन्नो माहिष्यः । शूद्रायां वैश्यादुत्पन्ना
करणी । तस्यां करण्यां माहिष्यादुत्पन्नो रथकार: ( जै० न्या००६
पा० १ अधि० १२ ) । तथा च याज्ञवल्क्यः माहिष्येण करण्यां तु
रथकारः प्रजायते ( याज्ञ० ११९५ ) इति ।
 
रथसममी -यस्यां मन्वन्तरस्यादौ रथारूढो दिवाकरः । माघमासस्य सप्तम्यां
सा तस्माद्रथसप्तमी ॥ ( पु० चि० पृ० १०४) ।
 
रन्यू-नवमी ( पु० चि० पृ० ३० ) 1
 
८६ न्या० को●