This page has not been fully proofread.

न्यायकोशः ।
 
यौगिकरूढम् ~ (नाम शक्तपदम् ) [ क ] यत्रावयवार्थरूढ्यर्थयोः स्वात-
ब्येण बोधः तत् (मु० ४ पृ० १८० ) ( त० प्र० ४ पृ० ३० ) ।
अत्र यौगिकं च तद्रूढं च इति व्युत्पत्तिरनुसंधेया (नील० ४ पृ० ३१) ।
अत्र शब्दशक्तिप्रकाशकृत आहुः । इदं यौगिकरूढं पदं रूढयौगिकम्
इत्यप्युच्यते ( श० प्र० श्लो० १५) इति । एतस्योदाहरणं तु नाम-
शब्दव्याख्याने संपादितम् इति तत्र दृश्यम् । वयमत्राधिकं ब्रूमः ।
योगरूढिरूपशक्तिवद्यौगिकरूढिरूपा शक्तिर्नातिरिक्ता । किंतु योग रूढि
एतदुभयात्मिकैव । योगरूढिशक्तिस्तु योगविशिष्टरूढित्वेन रूपेण विशिष्टै-
कार्यबोधकतया अतिरिक्ता इति विशेषः इति । [ख] यौगिकार्थ-
रूढार्थयोः स्वातध्येण बोधकं पदम् । [ग] योगेन रूढ्या च परस्परा-
सहकारेणार्थप्रतिपादकम् । यथा उद्भिदादिपदं यौगिकरूढम् । अत्र
उद्भित्पदं योगेन तरुगुल्मादे: रूढ्या तु यागविशेषस्य वाचकम् ।
( नील० ४ पृ० ३१ ) (मु० ४ ) । अत्र प्रमाणम् उद्भिदस्तरु-
गुल्माया: ( अमर० का० ३ वर्ग० १ श्लो० ५१ ) इति । उद्भिदा
यजेत पशुकामः ( श्रुतिः ) इत्यादावुद्भित्पदं तन्नामकयागविशेषवाचकम् ।
अथ वा उद्भित्पदं यौगिकं खनित्रे रूढं यागविशेषे ( त० प्र० ख० ४
पृ० ३० ) । यथा वा अश्वगन्धादिपदं यौगिकरूढम् । तथा हि ।
अश्वगन्धादिपदात्कदाचिदोषविनिष्ठसमुदायनिरूपितशत्तयौषधिबोधः ।
कदाचित्तु अश्वस्य गन्धोस्याम् इति व्युत्पत्या बाजिशालादिबोधोवयव-
शक्त्या इति (वै० सा० ८० ) । अथ वा अश्वगन्धादिपदमौषधि-
विशेषबोधे रूढम् । अश्वसंबन्धवत्तया वाजिशालाबोधे यौगिकम् । इदं
यौगिकरूढम् इत्युच्यते । रूढिर्योगापहारिणी इति तु प्रकरणाद्य-
भावे बोध्यम् । यत्र मण्डपपदादिभ्यो मण्डपानकर्त्रादे रूढ्यर्थमण्डपादि-
गुणवत्वेन बोधसत्र प्रथमप्रतीतरूढिविषयमुख्यार्थापरित्यागेन योगा-
ढिपूर्वकलक्षणाया बलववेन लक्षणयैव बोध: ( ल० म० आकाङ्क्षा-
दिवि० पृ० १२)।