This page has not been fully proofread.

न्यायकोशः ।
 
गुरुवामावस्य च योग्बमात्रा प्रतियोगिकत्वाञ्च इति । ४ जास्थवच्छिमप्र-
तियोगिताकत्ल जात्यतिरिक्तयोग्यधर्मावच्छिन्नप्रतियोगिताकत्व एतदम्य-
तरत् ( दि० १३ पृ० १२६ - १२७)। अत्र जात्यवच्छिमप्रति-
योगिताकत्वेत्युक्त्या स्तम्भे पिशाचान्योन्याभाव प्रत्यक्षम् ( स्तम्भः पिशाचो
न इति प्रत्यक्षम् ) उपपद्यते । जात्यतिरिक्तेत्यायुक्त्या च घटवदन्योन्या-
भावादेः प्रत्यक्षमुपपद्यते इति ज्ञेयम् ( राम० ११३ पृ० १२८ ) ।
इयं च योग्यता अन्योन्याभाववृत्तिरन्योन्याभावप्रत्यक्षे प्रयोजिका च
अधिकरणयोग्यता इति व्यवद्दियते । तेन स्तम्भेपि पिशाचान्योन्या-
भावपिशाचवदन्योन्याभावयोः प्रत्यक्षत्वाप्रत्यक्षत्वोपपत्तिः । अधिकरण-
योग्यतेत्यस्य योग्याधिकरणवृत्तित्वमित्यर्थः । तेन स्तम्भ इव वाय्वादौ न
पिशाचान्योन्याभावप्रत्यक्षम् इति भावः ( दि० १।३ पृ० १२७ ) ।
५ अनुमित्सानन्तरं लिङ्गदर्शनादिक्रमेण यावता कालेनोत्सर्गतः परामर्शो
जायते तावानेव कालः । अनुमित्सोत्पत्त्यधिकरणक्षणमारभ्य क्रमेण
पक्षविषयकलिङ्गज्ञान व्याप्तिस्मरणयोरुत्पत्तौ सत्यामुत्सर्गतो यावता कालेन
परामर्शोत्पत्तिः अनुमित्सोत्पत्तिक्षणमारभ्य तत्क्षणपर्यन्तं यावन्तः क्षणाः
यो वा तावन्मात्रक्षणावस्थायी स्थूलकालस्तत्समुदाय एव वेत्यर्थः । एवं
च क्षणचतुष्टयं तदधिककालानवस्थायी स्थूलसमयक्ष योग्यता इति
पर्यवसितम् ( ग० २ पक्ष० पृ० २८) । इयं च योग्यता मिश्रमतानु-
सारिण्यनुमिति प्रयोजिका च अनुमित्सायोग्यता इति व्यवद्दियत इति
बोध्यम् । अनुमित्सोत्पत्त्यनन्तरमनुमित्सानाशेपि सिद्धौ सत्यां यावत्काल-
मध्ये अनुमितिर्जायते तावानेव काल: ( दीधि० २ पक्ष० पृ० १३६ ) ।
६ साधकबाधकमानाभावः ( चि० २ पक्ष० पृ० ३३) । इयं
योग्यता त्वनुमितौ प्रयोजिका पक्षतात्मकसंशययोग्यता इत्युच्यते ।
 
योग्यानुपलब्धि:-( अनुपलब्धि: ) [क] प्रतियोगितद्व्याप्येत्तरप्रति-
योग्युपलम्भकयावत्सामग्री विशिष्टप्रतियोग्युपलम्भाभाव: (कु० ३ टी० ) ।
[ ख ] अभावप्रत्यक्षसामग्रीविशिष्टप्रतियोग्यनुपलब्धि: ( त० प्र० १ ) ।
अत्र अनुपलब्धौ योग्यत्वविशेषणदानेन अन्धकारे न घटाभाषप्रत्यक्षा-