This page has not been fully proofread.

६०५
 
बोगशास्त्रम् सांख्यप्रवचनापरनामधेयं पसजलिप्रणीतं पादचतुष्टयानकम्
( सर्व० सं० ३३१ पातञ्ज ० ) ।
 
-
 
योगाङ्गानि – यमनियमासनप्राणायामप्रत्याहारधारणा ध्यानसमाधयोटाषङ्गा-
नि योगस्य ( सर्व० सं० पृ० ३४७ पात ० ) ।
 
योगाचारः – (बौद्धः ) क्षणिक विज्ञानवादी बौद्ध विशेषः । गुरूंकभावना-
चतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्यान्तरस्य शून्यत्वं चाङ्गीकृतं कर्यमिति
पर्यनुयोगस्य करणात्केषांचिद्योगाचारप्रथा (सर्व० सं० पृ० ३० बौ०) ।
योगाचारमतं तु बौद्धशब्दव्याख्यानावसरे ( पृ० ६०९ ) संक्षेपतः
संपादितम् ।
 
योग्यता–कार्यविशेषजनने सामर्थ्यम् । तच्च १ [ क ] एकपदार्थे अपर-
पदार्थप्रकृतसंसर्गवत्वम् ( न्या० म० ४ पृ० २२ ) । इयं योग्यता
च ज्ञाता सती शाब्दबोधप्रयोजिका शब्दयोग्यता इति व्यवयिते । इयं
योग्यता अयोग्यवाक्यनिरासिका च भवति । अत एव वह्निना सिञ्च
तीत्यादिवाक्यान्नान्वयबोधः प्रमात्मको भवति । योग्यताविरहात्
( त० कौ० ) ( त० सं० ) । [ ख ] इतरपदार्थसंसर्गे अपर पदार्थ-
निष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वम् । [ग] बाधक प्रमाणा-
भावः । [घ ] बाघकप्रमाविरहः । स चेतरपदार्थसंसर्गे अपरंपदार्थ-
निष्ठात्यन्ताभावप्रतियोगित्व प्रमाविशेष्यत्वा भावः (चि० ४ ) । निष्कृ-
ष्टार्थस्तु तदीयान्वयितावच्छेदकसंबन्धे तन्निष्ठात्यन्ताभावप्रतियोगित्व-
प्रकारकप्रमाविशेष्यत्वसामान्याभावः इति । तेन वह्निना सिञ्चति इत्यादौ
बहिनिष्ठकरणताया निरूपकत्वरूपान्वयितावच्छेदकसंबन्धे सेकनिष्ठा-
त्यन्ताभाव प्रतियोगित्व प्रकारकप्रमा विशेष्यत्वस्यैव सत्त्वान्नातिव्याप्तिः (मा०
शब्द० ) । यथा प्रमेयं वाच्यमित्यादौ योग्यता ( चि०४ ) ( तर्का० ४
पृ० १० ) । [ ङ ] अबाधितार्थकत्वम् ( ग० अव० ) । [ च ]
अर्थाबाध: ( त० सं० ४ ) । यथा जलेन स्थलं सिञ्चतीत्यादौ योग्यता
( न्या० म० ४ पृ० २२ ) । अत्र जले सेकसंसर्गस्य कार्यकारण-
भावलक्षणस्य सत्त्वाद्योग्यता ( प्र० प्र० ) ( त० कौ० ) । अथ वा