2023-02-20 00:56:23 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
विनाकृतस्म रूपर्थस्मेष रूट्यर्थविनाकृतस्यापि योगार्थस्य बोधकं भवति ।
मण्डपे शेत इत्यादौ योगार्थस्य मण्डपानकर्त्रादेरिव मण्डपं भोजये-
दित्यादौ समुदितार्थस्य गृहादेरयोग्यत्वेनान्वयाबोधात् । योगरूढं तु
पङ्कजादिपदमवयववृत्त्या रूढ्यर्थमेव समुदायशक्त्या चावयवलम्यार्थमेवानु-
भावयति न त्वन्यम् ( श० प्र० लो० २५ टी० पृ० ३२) इति ।
योगरूढं द्विविधम् समासात्मकम् तद्धिताक्तं चेति । तत्र समासात्मकं
कृष्णसर्पादि । तद्धिताक्तं तु वासुदेवादिपदम् । कृदन्तस्य पङ्कजादि-
: योगरूढस्य सामासिक एवान्तर्भावः इति नाधिक्यम् ( श० प्र०
श्लो० २८ टी० पृ० ३७ ) ।
योगरूढिः - ( पदशक्तिः ) [ क ] शब्दस्य वृत्तिविशेषः । यया वृत्या
पङ्कजनिकर्तृत्वविशिष्टपद्मस्य बोध: ( हेमचन्द्रः ) । यथा पङ्कजब्राह्मणा-
दिपदे योगरूढिः । अत्र व्युत्पत्तिः योगेन सहिता रूढिः इति ( नील० ४
पृ० ३१ ) । अत्र विप्रतिपत्तिः । पङ्कजादिपदानां योग एव इत्येके
बदन्ति । रूढिः इत्यपरे बदन्ति । योगरूढिः इति गौतमीयाः आहुः
( न्या० सि० दी० पृ० ४२ ) । अयं भावः । पङ्कजपदात् पद्मत्व-
विशिष्ट प्रतीतये पद्मत्व विशिष्टे पङ्कजसमुदायस्य रूढिरावश्यकी । पदा-
चियतोपस्थितेर्वृत्तिसाध्यत्वात् । पङ्कजपदाद्योगेन कुमुदस्यापि बोध-
प्रसाच मन्मते कदाचित्कुमुदबोधस्तु लक्षणयैव इति ( त० प्र०
ख० ४ पृ० ३१ ) । अत्रायं विशेषः । यत्र योगार्थान्वितरूयर्थाव
बोधः तत्र सर्वत्र योगरूढिः । यौगिकार्थबुद्धिरूपसहकारिलाभा-
द्विशिष्टार्थोपस्थापकत्वं रूढेर्योगरूढित्वम् (न्या० सि० दी० पृ० ४८ ) ।
[ख] वैयाकरणास्तु यत्र शास्त्रकल्पितावयवार्थान्वित विशेष्यभूतार्थ-
निरूपितं समुदाये बोधकत्वम् सा योगरूढिः । यथा पङ्कजादिपदे
इत्याहुः । अत्र पङ्कजनिकर्तृ पद्मम् इति बोधात् पद्मस्यानुपपत्तिप्रति
संधान संबन्धप्रतिसंधानं च विना बोधान्न तत्र लक्षणाया अवसरः ।
कचित् तात्पर्य ग्राहकवशात् केवलरूट्यर्थस्य केवळयोगार्थस्य च बोधः ।
यथा भूम्यै पकजमुत्पनं कल्हारकैरवमुखेष्वपि पङ्कजेषु इत्यादौ ( उ०
म० आकाङ्कादिवि० पृ० १२ ) ।