2023-02-20 00:56:22 by ambuda-bot
This page has not been fully proofread.
६७२
न्यायकोशः ।
घटः इति वाक्यजन्यशाब्दबोधे घटांशे भूतलवृत्तित्वावगा हित्वस्यानु-
भवसिद्धतया भूतले न घटः इति वाक्यजन्यशाब्दबोधे घटांशे भूतल-
वृत्तित्वाभावोवश्यमभ्युपगन्तव्यः इति । इदमत्राकूतम् । भूतले न घटः
इति वाक्यजन्यस्याप्रामाण्यज्ञानानास्कन्दितबोधस्य भूतले घटः इत्यादि-
वाक्यजन्यघटादिविशेष्यक भूतला द्याधेयत्त्र प्रकारकबोध विरोधितया नञ्-
पदं विना यत्र धर्मिणि यस्य विशेषणतया भानं यादृशसमभिव्याहारा-
द्भवति तादृशसमभिव्याहारस्थले नञ्सत्रे तत्र धर्मिणि तदभावः प्रतीयते
इति नियमोङ्गीकर्तव्यः । अयमेव प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ
इति न्यायस्यार्थः इति (गा० व्यु० का० १) । यथा वा प्रवृत्ति प्रतीष्ट-
साधनताज्ञानस्य हेतुतायां प्रविष्टा योगक्षेमसाधारणी साधनता । नैयायि-
कमते संध्यावन्दनादि नित्यकर्मणामर्थवादोपस्थापितब्रह्मलोकावाप्तिप्रत्यवा-
यानुःपत्तिरूपफलकल्पनेन तादृशफलस्य तु स्वतः पुरुषार्थत्वाभावेन
तत्रेच्छानुत्पत्तौ कथं तादृशकर्मसु प्रवृत्तिः इत्याशङ्कायाः समाधान प्रसङ्गे
नेत्थमुक्तम् । यथा हि नित्ये कृते प्रत्यवायप्रागभावस्तिष्ठति तदभावे
तदभावः एवम् प्रत्यवायाभावसत्त्रे दुःखप्रागभावसत्त्वम् तदभावे तदभावः
( दुःखरूपः ) इति योगक्षेमसाधारणकारणताया दुःखप्रागभावं प्रत्यपि
सुवचत्वात् इति । अत्र योगे अप्राप्तप्राप्तौ क्षेम: सिद्धस्य रक्षणम्
इत्यर्थोनुसंधेय: ( दि० गु० विधिनि० पृ० २२८ ) । २ वेदान्ति-
नस्तु अलम्यलाभसहितं लब्धपरिरक्षणम् । यथा अनन्याश्चिन्तयन्तो
मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
( गीता० अ० ९ श्लो० २२) इत्यादौ इत्याहु: । अत्रार्थे योगश्च क्षेमं
च इति समाहारद्वन्द्वो ज्ञेयः ।
०
योगजः – ( संनिकर्षः ) योगाभ्यासजनितो धर्मविशेषः । स चादृष्टविशेषः ।
अयं चालौकिके योगिप्रत्यक्षे कारणभूतः अलौकिकसं निकर्ष विशेषः ।
सच युक्तयुञ्जानेति द्विविधयोगिभेदतो द्विविध: ( भा०प० श्लो०६६)
( सि० च० ) । तत्र युक्ताख्ययोगिनो योगजधर्मसंनिकर्षेण वस्तुमात्रस्य
अन्यात्मनाम् अतीन्द्रियाणामपि आकाशदिक्कालपरमाणुवायुमनसाम्