2023-02-20 00:56:22 by ambuda-bot
This page has not been fully proofread.
६७०
न्यायकोशः ।
संयोग विभागाभावः । दिगादीनां तु पृथग्गतिमत्त्वाभावात्परस्परेण संयोग-
विभागाभाष इति । त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति । युतेष्वाश्रयेषु
समवायो नास्तीति परस्परेण संयोगः सिद्ध: ( प्रशस्त० गु० पृ० १९ ) ।
युष्मद् – संबोध्यचेतनः । अधिकं तु त्वम्शब्दार्थे दृश्यम् ।
यूपः शास्त्रीयच्छेदनतक्षणा दिक्रियाश्रयः ( जै० न्या० अ० ७ पा० ३
अधि० ११ ) ।
योगः -- १ संबन्धः । २ [क] समुदायशब्दस्य अवयवशक्तिः (त०
दी० ४ ) ( नील० ४ पृ० ३१ ) ( सि० च० ४ । ३१ ) । यथा
पाचकादिपदेषु योगः । अत्र च पाचकादिपदात् पचति इति व्युत्पत्त्या
पाककर्ता बुद्ध्यते इति बोध्यम् । अत्र योगबलं समाख्या इति मीमांसका
वदन्ति (बाच ० ) । [ख] वैयाकरणास्तु शास्त्रकल्पितावयवार्थमात्र-
बोधप्रयोजको योगः ( शक्तिः ) । यथा पाचकादौ इत्याहुः ( ल० म०
आकाङ्क्षादिवि० पृ० १२ ) । ३ [ क ] चित्तवृत्तिनिरोधः इति योगिन
आहुः (पात० पा० १ सू० २ ) । [ ख ] क्लेशकर्मविपाकाशय-
परिपन्धिचित्तवृत्तिनिरोधो योगः ( सर्व० सं० पृ० १३२ पात● ) ।
अत्रेदं बोध्यम् । विषयेष्वलंप्रत्ययवत उदासीनस्य बहिरिन्द्रियेभ्यो व्यावृत्तं
मनो यदा आत्ममात्र निष्ठं भवति तदा तत्कर्मानुगुणप्रयत्नाभावात्कर्म मनसि
नोत्पद्यते स्थिरतरं मनो भवति स एव योगः ( वै० उ०५/२०१६) ।
अथ वा आत्मस्थे मनसि षडङ्गयोगेन इन्द्रियादिकं परित्यज्य मनो यदा
आत्ममात्रे तिष्ठति तदा मनःकर्मणोनुत्पादः तदा मनो निश्चलं भवति ।
तदवस्थायां शरीरावच्छेदेन दुःखं न जायते । स आत्मना बाह्यव्यावृत्त-
मनसः संयोगो योग उच्यते । षडङ्गानि स्कन्दपुराणे उक्तानि यथा
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि
भवन्ति षट् ॥ (वै० सू० ५/२/१६ ) ( वै० वि० ) इति । यद्वा
इन्द्रियाणि विषयेभ्यः प्रत्याहृत्येन्द्रियेभ्यो मनः प्रत्याहृत्य साक्षात्कर्तव्ये
वस्तुनि मनःप्रणिधानं योगः (नील० ) इति । स च योगो द्विविधः ।
राजयोगः हठयोगश्च । तत्र राजयोगः पतञ्जलिनोक्तः । हठयोगस्तु