This page has not been fully proofread.

न्यायकोशः ।
 
६६९
 
युक्तिहीन विचारे तु धर्महानिः प्रजायते ॥ इति । ३ लिङ्गद्देश (लिङ्ग-
निश्चयः ) इति व्यवहारशास्त्रज्ञा आहुः (वीरमि० लेख्य० पृ० २२२ ) ।
व्यवहारे कानिचिलिङ्गानि नारदेनोक्तानि यथा उल्काहस्तोग्निदो ज्ञेयः
शस्त्रपाणिश्च घातकः । केशाकेशिगृहीतश्च युगपत्पारदारिकः ॥ कुद्दाल-
पाणिर्विज्ञेयः सेतुभेत्ता समीपगः । तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्तितः ॥
प्रत्यक्षचिह्रैर्विज्ञेयो दण्डपारुष्यकृन्नरः । असाक्षिप्रत्यया होते पारुण्ये तु
परीक्षणम् ॥ ( वीरमित्रो० लेख्यनि० पृ० २२२ ) इति । ४ नाटकाङ्ग-
विशेषः इत्यालंकारिका आहुः । तदुक्तम् संप्रधारणमर्थानां युक्तिः प्राप्तिः
सुखागमः ( सा० ६० परि० ६ श्लो० ३४३ पृ० १०५ ) इति ।
युगम् – १ (अनुवत्सरशन्दे दृश्यम् ) । २ चतुर्थी (पु० चि० पृ०३०) ।
युगादि:--द्वे शुक् द्वे तथा कृष्णे युगादी कत्रयो विदुः । नवमी कार्तिके
शुक्ला तृतीया माधवे सिता । अमावास्या तपस्ये च नभस्ये च त्रयोदशी ॥
( पु० चि० पृ० ८६) ।
 

 
युग्मम् - द्वितीया ( पु० चि० पृ० ३७ ) ।
 
-
 
युञ्जन:
 
-
 
- १ [ क ] चिन्तासहकारेण सकलज्ञानवान् योगी ( भा०प०
श्लो० ६७ ) । [ ख ] चिन्ताविशेषसनाथद्वितीय प्रत्यासत्या समय -
विशेषे ज्ञानवान् ( सि० च० १ पृ० २३ ) । अत्र युक्तपदार्थघटक-
प्रथमप्रत्यासत्तिमपेक्ष्य द्वितीय प्रत्यासत्तिः इत्यनुसंधेयम् । २ रथसारथिः ।
३ विप्रः इति काव्यज्ञा आहुः ( वाच० ) ।
 
-
 
युतसिद्धिः ~[ क ] द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वम् युताश्रयाश्रयित्वं
वा (वै० उ० ७।२।९ ) ( प्रशस्त ० पृ० १७ ) । यथा मेषयोः घट-
भूतलयोर्वा युतसिद्धिः । [ख ] असंबन्धयोर्विद्यमानत्वम् पृथगाश्रया-
श्रितत्वं वा (वै० उ० ७।२।१३ ) । [ग] परस्परसंबन्धशून्ययोर-
वस्थानम् (वै० वि० ७।२।१३ ) । युतसिद्धिश्च संयोगं प्रति प्रयोजि-
कास्ति (वै० उ० ७ १२/९ - १३ ) ( प्रशस्त० पृ० १७ ) । अत्रेदं
बोध्यम् । अण्वाकाशयोराश्रयान्तराभावेप्यन्यतरस्य पृथग्गतिमत्त्वात्संयोग-
विभागौ सिद्धौ । तन्तुपटयोरनित्ययोः पृथगाश्रयान्तराभावात्परस्परतः