This page has not been fully proofread.

न्यायकोशः ।
 
रूपवन्तः इत्यादौ । यथा वा यावन्तो मनुष्या मरणशीला इत्यादौ ।
अत्राद्ये घटत्वव्यापकरूपवन्तः इत्यन्वयबोधो जायते । अन्त्ये मनुष्यत्व
व्यापकत्वं मरणशीलत्वे बोध्यते इति विज्ञेयम् । ३ व्यासज्यवृत्तिर्धर्म-
विशेषः । यथा सर्वे घटा रूपवन्त इत्यादौ सर्वशब्दप्रवृत्ति निमित्तं
घटनिष्ठं यावत्त्वम् । इदं च उद्देश्यतावच्छेदकघटत्वव्यापिका विधेयरूप-
व्याप्या च या पर्याप्तिः तादृशपर्याप्तिकं भवति इति विज्ञेयम् ( ग०
शक्ति०
६० पृ० ९३ ) । ४ साकल्यम् ( अशेषत्वम् ) । ५ अवधित्वम् ।
६ मानत्वम् ( मर्यादात्वम् ) । ७ अवधारणत्वम् ( अमरः ) ।
 

 
यावद्रव्यभावित्वम् - स्वाश्रयनाशजन्यनाशप्रतियोगित्वम् ( दि० १/२
आकाशनि० पृ० ८८ ) । यथा घटादिवृत्तिरूपादेर्याबद्रव्यभावित्वम् ।
अत्र घटस्य नाशे तद्गतरूपस्यापि नाशः इत्यनुभवो मन्तव्यः । स्वपदार्थो
रूपम् । तथाच स्वम् घटस्य रूपम् । तस्याश्रयो घटः । तस्य नाशः ।
तादृशनाशजन्यो नाशः रूपनाशः । तस्य प्रतियोगित्वं रूपे इति
लक्षणसमन्वयः । शब्दज्ञानादीनां तु न तादृशम् यावद्रव्यभावित्वम्
इति अतो नातिव्याप्तिः । तथा चोक्तम् अयावद्दव्यभावित्वेनैव शब्दा-
दीनां वायुविशेषगुणत्वं नास्ति (मु० १ आकाशनि० पृ०८८) इति ।
युक्तः – १ यत्किंचित्प्रतियोगिक संबन्धानुयोगी। यथा भूतलं घटेन युक्त-
मित्यादौ । २ उचितम् । यथा युक्तमुच्यते इत्यादौ । ३ योगशास्त्रज्ञास्तु
योगाभ्यासवशात्सर्वदा सकलविषयकज्ञानवान् योगी ( भा०प०
श्लो० ६७ ) । अथवा प्रथमप्रत्त्यासत्या निरन्तरमखिलपदार्थज्ञानवान्
इत्याहुः ( सि० च० १ पृ० २३ ) । अत्रेदं बोध्यम् । युक्तस्य
योगजधर्मसहायेन मनसाकाशपरमाण्वादिनिखिल पदार्थगोचरं ज्ञानं
सर्वदैव ध्यानाद्यभावेपि भवितुमर्हति (मु० १ पृ० १३३ ) ( प्रशस्त ०
बुद्धिनि० पृ० ४३ ) इति ।
 
युक्ति: - १ साधकबाधकप्रमाणोपन्यासः ( त० प्र० १ ) ( म० प्र०
पृ० ३ ) । २ अनुमानम् । तच्च साध्यसाधक लिङ्गज्ञानम् । न्यायः इति
मीमांसका आहुः । अत्रोच्यते श्रुत्योर्विरोधे न्यायस्तु बळवानर्थनिर्णये ।