2023-02-20 00:56:21 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
६६७
३ व्यापारजन्यत्वप्रकारकेच्छा । यथा याचमानः शिवं सुरानित्यादौ
याच्ञा । अत्र धात्वर्थेच्छायां प्रधानकर्मकल्याणान्वितद्वितीयार्थविषयिताया
अन्वयः । व्यापारे च सुरान्वितवृत्तित्वस्य द्वितीयान्तार्थस्यान्वयः । तथा
च सुरवृत्तिव्यापारजन्यत्वप्रकारककल्याणेच्छाश्रयः इत्यन्वयबोध: ( ग०
व्यु० का० २ पृ० ४५ ) । शिष्टं तु प्रार्थना शब्दव्याख्याने दृश्यम्
( श० प्र० श्लो० ७३ टी० पृ० ११२) ।
याचितम् – विवाहाद्युत्सवेषु वस्त्रालंकारादि याचित्वा नीतम् ( मिताक्षरा
अ० २ श्लो० ६७ )।
-
यातयामः - प्रतिपदंशास्त्रयो भूताः पादश्चैकश्च तिष्ठति । यातयामः स
विज्ञेयो न हि भस्मान हूयते ॥ ( पु० चि० पृ० ३१९) ।
याथार्थ्यम्
– सत्यत्वम् वास्तविकत्वं वा ।
यापनम् – १ नयनशब्दवदस्यार्थोनुसंधेयः । २ कालादेः क्षेपणम् ।
३ निरसनम् ।
याम्यम् - भरणी ( पु० चि० पृ० ३०६ ) ।
-
यावत् - १ मर्यादा । सा च कालरूपा देशरूपा चेति द्विविधा । तत्र
कालरूपा सीमा यथा आरभ्य तस्यां दशम तु यावत् प्रपूजयेत्पर्वत-
राजपुत्रीम् इत्यादौ यावदर्थो मर्यादा । देशरूपा सीमा यथा काशीतः
कौशिकीं यावद्याति इत्यादौ यावदर्थो मर्यादा । २ अभिविधिः । यथा
कार्तिकमारभ्य चैत्रं यावच्छीतं भवति इत्यादौ काशीत: पाटलिपुत्रं
यादृष्टो देवः इत्यादौ च यावदर्थोभिविधिः । आङ्शब्दोपि यावत्-
शब्दवदेव व्याख्येयः । किंतु तद्योगे पञ्चमी साधुः ( ग० व्यु०
का० २ ख० २ पृ० ७४-७६ ) । अधिकं च मर्यादा अभिविधि
एतच्छब्दव्याख्याने संपादितम् तत्तत्र द्रष्टव्यम् ।
यावच्चम् – १ अपेक्षाबुद्धि विशेष विषयत्वम् ( त० प्र० २ ) । यथा
यत्समानाधिकरणा यावन्तोभावाः ( दीधि० २ चतु० ) इत्यादौ
यावत्त्वम् । २ व्यापकत्वम् ( ग० सिद्धा० ) । यथा यावन्तो घटा