This page has not been fully proofread.

६६६
 
न्यायकोशः ।
 
इदम् इत्यारोपज्ञान विषयत्वमुद्देश्यत्वम् इति बोध्यम् । यागत्वं मानसप्रत्यक्ष-
गम्यो जातिविशेषः इत्यन्य आहुः । अपरे तु श्राद्धस्य पित्रपेक्षया याग-
त्वेन ब्राह्मणापेक्षया तु दानत्वेन तत्र सांकर्यान्न यागत्वं जाति-
विशेष: : इत्याहुः ( दि० गु० धर्मनि० पृ० २३४ ) ( का० व्या ०
का० ४ पृ० ५)। [ङ ] हवि: प्रक्षेपात्मको व्यापारः । यथा याजका
यजन्तीत्यादौ धात्वर्थ: । अत्र च ऋत्विजामेव स्वातन्त्र्यम् न तु यज-
मानस्य । एवं च यागपदस्यायं लक्ष्यार्थ एव इति ज्ञेयम् ( ग० व्यु०
का० ३ पृ० ८१ ) ।
 
-
 
यागकालः – पर्वणो यश्चतुर्थांश आद्याः प्रतिपदस्त्रयः । यागकाल: स
विज्ञेयः प्रातरुक्तो मनीषिभिः ॥ (पु० चि० पृ० ३१९)।
 
O
 
याचनम् – [क] स्वोद्देश्यकदानेच्छा । यथा पौरवं गां याचते विप्र
इत्यादौ याचधात्वर्थ: । अत्र प्रधानकर्मगवाद्यन्वितद्वितीयार्यो विषयत्वम् ।
तस्य धात्वर्थतावच्छेदकदाने निरूपकत्व संबन्धेन अन्वयः । पौरवपदो-
तरद्वितीयायास्तु वृत्तिरेबार्ध: । तस्या दानेन्बयः । अत्रेदं विज्ञेयम् ।
सविषयकज्ञानादिरूपविषयोपहितेच्छा बोधकधातुस्थल इच्छाविषय विषय-
त्वमेव प्रधानकर्मत्वम् । अत एव घटो जिज्ञास्यते इत्यादी घटादेः
सन्नन्तकर्मता । पौरवस्य तु तादृशदानाश्रयत्व मेवा प्रधान कर्मत्वम् इति ।
भिक्ष्यर्थोप्येवमेव बोध्यः ( ग० व्यु० का० २ पृ० ४५ ) । अत्र
वैयाकरणाः समुत्तिष्ठन्ते । यत्तु स्वोद्देश्यकदानेच्छा याचनम् इति
तन्न । पुत्रार्थ कन्यां याचने इत्यनापत्तेः । स्वसंप्रदानकदा नेच्छावति
फलालाभशङ्कया देहि इत्यवदत्यपि तथा प्रयोगापत्तेश्च इति ( ल० म०
सुब६० का० २ पृ० ९२ ) । [ ख ] शाब्दिकास्तु स्वामिस्वत्व-
निवृत्ति स्वस्वत्वोत्पत्ति एतदुभयानुकूल: दीयताम् इत्यभिलापरूपो दिदा-
पयिषाव्यञ्जको व्यापारः । यथा बलिं याचते वसुधामित्यादौ याचेरर्थः
इत्याहुः । २ स्वीकारानुकूलो व्यापारः । यथा अविनीतं विनयं याचते
इत्यादौ याचेरर्थः । स्वीकारश्च इदमवश्यं करिष्यामि इत्यभिलापादि-
जनको ज्ञानविशेषः ( ल० म० सुबर्थ ० का० २ १० ९२ ) ।