2023-02-20 00:56:20 by ambuda-bot
This page has not been fully proofread.
६६४
न्यायकोशः ।
यदा – १ यस्मिन्काले इत्यर्थः । यथा यदा मनः पुरीतति प्रविशति तदा
सुषुप्तिः इत्यादौ । २ शाब्दिकास्तु यच्छब्देन इत्यर्थ इत्याहुः ।
यदि - १ पक्षान्तरम् । यथा अथ ज्ञानमात्रे त्वनः संयोगस्य यदि कार-
णत्वं तदा रासनचाक्षुषादिप्रत्यक्षकाले त्वाचप्रत्यक्षं स्यात् (मु० १
पृ० ११५ ) इत्यादौ । २ संभावना । यथा यदि स्यादुपलभ्येतेत्येवं
यत्र प्रसज्यते ( भा० प० श्लो० ६३ ) इत्यादौ संभावनाद्योतको यदि
शब्दः । ३ गर्हा । ४ विकल्प: ( मेदिनी० ) । ५ असंदेहे संदेह -
वचनम् (श्रीधरः )। यथा यद्येषोपरता देवी ( भाग ० १ । ३ । ३४ )
इत्यादौ यदिशब्दस्यार्थः ।
●
यदृच्छा – १ स्वातत्र्यम् । २ स्वैरता । यथा यदृच्छालाभसंतुष्टः ( गीताo
४ । २२ ) इत्यादौ । अत्रार्थे प्रमाणम् स्वेच्छा यदृच्छा स्वच्छन्दः स्वैरता
चेति ते समा: ( केशवः ) इति । ३ भगवदिच्छा । यथा यदृच्छया
चोपपन्नं स्वर्गद्वारमपावृतम् ( गीता० २१३२ ) इत्यादौ इति वेदा-
न्तिन आहुः ।
यहच्छाशब्दः - जातिगुणक्रियाद्यवाचकः संज्ञाशब्दः । यथा डित्थ इत्यादि-
शब्दः । तदुक्तं काव्यप्रकाशे डित्थादिशब्दानामन्त्यबुद्धिनिर्माह्यं संहृतक्रमं
स्वरूपं वक्रा यदृच्छया डित्यादिष्वर्येषूपाधित्वेन निवेश्यते इति संज्ञारूपो
यदृच्छात्मकः इति । गौः शुक्लश्चलो डिथ इत्यादौ चतुष्टयी शब्दानां
प्रवृत्तिः इति महाभाष्यकाराः ( काव्य० प्र० उ० २ पृ० १२ ) ।
अत्रोदाहरति असंपादयतः कंचिदर्थे जातिक्रियागुणैः । यदृच्छाशब्दव-
त्पुंसः संज्ञायै जन्म केवलम् ॥ इति । जात्यादिप्रवृत्तिनिमित्तशून्यः
इच्छाप्रकल्पितः इत्यर्थ: ( माघ ० टी० स० २ श्लो० ४७ ) ।
यद्वा – १ बुद्धौ संक्षिप्तार्थविषयीकरणम् । २ पक्षान्तरम् । पूर्वकल्प-
शैथिल्यप्रयुक्तारुच्या कल्पान्तरबोधनम् इति यावत् । यथा यद्वाभ्युदय-
योग्यता ( भर्तृहरिः ) इत्यादौ ।
यमः – अहिंसासव्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः इति ( सर्व० सं० पृ०
१३८ पात० ) ।