This page has not been fully proofread.

न्यायकोचः ।
 
च्छेदक स्वोच्चारक पुरुषोच्चरितस्व पूर्वपदोपस्थाप्यतावच्छेदकधर्मावच्छिनः ।
यथा चैत्रः समागतो यस्तत्रावलोकितः इत्यादौ । अत्र चैत्रादिपदेनाप्यु-
पस्थितोर्थो यच्छब्देन बोध्यते । यथा वा साधु चन्द्रमसि पुष्करैः कृतं
मीलितं यदमिरामताधिके । उद्यता जयिनि कामिनीमुखे तेन साहस-
मनुष्ठितं पुनः ॥ इत्यादौ । अत्र तत्पदासत्वेपि न दोषः । पूर्वप्रकान्त-
स्यैव कृतशब्दोपस्थापितव्यापारस्याभेदेन मीलनान्वयितया यच्छन्देन
बोधनात् । एवम् यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि
दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥
( कुमार० स० १ श्लो० २ ) इत्यादाववि ( ग० शक्ति० पृ० ११४ ) ।
२ यस्मात् इत्यर्थः । ३ शाब्दिकास्तु कृत्तद्धितसंज्ञकः प्रत्ययविशेषः ।
यथा देयम् दिश्यम् इत्यादी इत्याहुः । ४ गर्दा । ५ अवधृतिश्च इति

काव्यज्ञा आहुः ( मेदिनी० ) ।
 
यत्नः - १ प्रयत्नशब्दवदस्यार्थोनुसंधेयः । २ आयासः इति काव्यज्ञा आहुः ।
३ उद्योगः इति व्यवहारज्ञा वदन्ति ।
 
यथा
 
-
 
– १ येन प्रकारेण इत्यर्थः । २ सादृश्यम् । ३ योग्यता । ४ आनु-
रूप्यम् । ५ पदार्थानतिवृत्तिः ( सि० कौ० ) ।
 
6
 
-
 
यथार्थबुद्धिः – तद्वति तत्प्रकारकं ज्ञानम् । यथा घटे अयं घटः इति ज्ञानम्।
इदं च लक्षणं स्मृत्यनुभवोभयसाधारणमपि भवति इति विज्ञेयम् ।
अत्र यायायै च फलवत्प्रवृत्तिजननयोग्यत्वम् ( त० कौ० १ पृ० ७ ) ।
तद्वति तदवगा हित्वं वा । सर्वोशे याथार्थ्य तु स्वव्यधिकरणप्रकारावच्छिन्ना
या या विषयता तत्तदनिरूपकत्वम् ( ग० २ हेत्वा० सामा० ) ।
यथार्थवक्ता – (आप्तः ) प्रकृतवाक्यार्थविषयकयथार्थशाब्दबोधविषयकता-
त्पर्यवान् ( वाक्य० ४ पृ० १९) । यथा आप्तवाक्यं प्रमाणशब्दः
इत्यादौ सत्यवतीसुतव्यासो गौतमकणादौ च यथार्थवक्तारः । शाब्दबोधे
याथार्थ्ये च तद्वति तत्प्रकारकनिश्चयत्वमेवेति ज्ञेयम् ।
यथार्थानुभवः – प्रमाशब्दबदस्यार्थोनुसंधेयः ( कु० ४११ ) ( चि० )
 
-
 
( व० सं० ) ।