This page has not been fully proofread.

६६२
 
न्यायकोशः ।
 
इति । यज्ञेन संस्कृतमुपवीतम् इति वा ( वाच० ) । तत्स्वरूपमुक्तं यथा
ऊर्ध्वं तु त्रिवृतं सूत्रं सघवानिर्मितं शनैः । तन्तुत्रयमधोवृत्तं यज्ञसूत्रं
विदुर्बुधाः ॥ ( कालिकापु० अ० ४ ) इति । उपवीतमाह गोभिल:
यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वा अपि वा कुशरज्जुमेव इति । मनुरपि
कार्पासमुपवीतं स्यादिप्रस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्या-
विकसौत्रिकम् ॥ ( मनु० अ० २ लोक० ४४ ) इति । नवतन्तुत्वं
व्यक्तमाह देवल: यज्ञोपवीतं कुर्वीत सूत्राणि नव तन्तवः । एकेन
ग्रन्थिना तन्तुर्द्विगुणस्त्रिगुणोथ वा ॥ ( मनु० टी० कुल्लू० २१४४ ) इति ।
यज्ञोपवीतधारणार्थ मन्त्रस्तु यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं
पुरस्तात् । आयुष्यमध्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
( बौधायन: ) इति ।
 
यज्ञायज्ञीयम् – यज्ञायज्ञ इत्यनेन शब्देन युक्तायामृच्युत्पन्नं साम यज्ञा-
यज्ञीयम् ( जै० न्या० अ० ९ पा० १ अधि० १८ ) ।
यज्ञोपवीतम् –– यज्ञसूत्रशब्दबदस्यार्थोनुसंधेयः ।
 
यत् - ९ बुद्धिविशेषविषयः । अत्रार्थे यच्छब्दश्च तच्छन्दार्थनित्यापेक्षी ।
उत्तरवाक्यस्थस्तु न तदपेक्षी इति सामान्यतो विवेकः ( काव्यप्र० उ० ७) ।
अत्र विशेषः यत्तच्छब्दार्थयोरन्वये च न समानविभक्तेस्तन्त्रता इत्याकरे
द्रष्टव्यः । बुद्धिविशेषविषयश्च क्वचित् तत्पदप्रतिपाद्यतया वक्तृबुद्धिविषय-
तावच्छेदकस्बोपलक्षितधर्मावच्छिन्नः । यथा यो यो घूमवान् स वह्निमान्
इत्यादौ यच्छब्दार्थः । अत्र तत्पदार्थस्तु स्वप्रयोजकबुद्धिविषयतावच्छेदक-
त्वोपलक्षितधर्मावच्छिन्नः ( ग० श० टी० १० ११३ ) । वस्तुतस्तु
स्वपूर्वपदप्रतिपाद्यतया बुद्धिविषयतावच्छेदकधर्मावच्छिन्ने यत्पदस्य शक्तिः
कल्प्यते । अतो न यत्पदशक्ति प्रहस्तत्पदशक्तिप्रहाधीनः इत्यन्योन्याश्रयः ।
इयं च व्युत्पत्तिः प्रक्रम्यमाण परामर्शकयच्छब्दस्य द्रष्टव्या ( ग० शक्ति०
टी० पृ० ११३ ) । यच्छब्दस्य स्वोत्तरप्रयोक्तृपदोपस्थापितवाचीत्यर्थः
इत्यपि तत्रैवोक्तम् । शाब्दिकास्तु तच्छन्दप्रतिपाद्यतया वक्तृबुद्धि-
विषय उद्देश्यो यपदार्थ इत्याहुः । कचित् स्वप्रयोजकबुद्धिविषयत्ताव-