This page has not been fully proofread.

न्यायकोशः ।
 
य.
 
यकृत् - दक्षिणपार्श्वस्थितो मांसविशेषः ( संगीतर० पृ० १९ ) ।
यङ् – (धात्वंशः प्रत्ययः ) १ [ क ] पौन:पुन्यम् । यथा पापच्यते इत्यादौ
यर्थः । अयं धातुप्रकृतिकः प्रत्ययो बोध्यः । पौनःपुन्यं च प्रकृत-
धात्वर्थजातीयक्रियोत्तरतादृशक्रियानन्तर्यरूपं प्रकृत्यर्थे विशेषणत्वेनान्वेति ।
तेन पाकोत्तरपाकानन्तर्यवत्पाककर्ता इत्येवं तत्र वाक्यार्थः । द्विःपक्तरि
पुनः पक्तृत्वेपि न निरुक्तं पुनः पुनः पक्तृत्वम् । अतो न तत्र पापच्यते
इति प्रयोगः ( श० प्र० श्लो० १०८ टी० पृ० १९३ ) ।
[ख ] इदानींतनप्रकृत्यर्थस जातीयक्रियान्तरध्वंसकालीनत्वे सति वर्त
मानादिकृतिविषयत्वम् । यथा पापच्यते इत्यादौ । अत्र इदानींतनत्वं च
स्थूलकालमादायान्वेति इति विज्ञेयम् ( तर्का० ४ पृ० ११ ) । अत्रायं
विवेकः । सत्यन्तदलमेव यङा प्रत्याय्यते । विशेष्यदलं त्वाख्यातेन
बोध्यते । अतो यङो न विशिष्टवाचकत्वम् इति । २ कौटिल्यम् ।
यथा जङ्गम्यते चङ्गम्यते इत्यादौ यडोर्थः । अत्र गत्यर्थात् धातोः
कौटिल्य एव यङ् विहितः । तेन कुटिलगतिमान् इत्येवं तत्र बोधः ।
शेषं पूर्ववत् । ३ निन्दितत्वम् । यथा लोल्लुप्यते चञ्चर्यते जलप्यते
दन्दश्यते जेगिल्यते इत्यादौ निन्दितत्वं यडोर्थः । अत्र लुपसदचर०
( पाणि० सू० ३।१।२४ ) इति सूत्रेण गर्हायां यङ् विहितः । तेन
गर्हितं लुम्पति चरति इत्यादिकोर्थः ।
 

 

 
यज्— ( धातुः ) देवतोद्देश्यकद्रव्ययागरूपा क्रिया तदर्थ: ( जै० सू०
वृ० अ० ४ पा० २ सू० २७) ।
 
यजतिः -याग विशेषः । यथा यजतिषु येयजामहं करोति नानुयाजेषु
( श्रुतिः ) इत्यादौ । तल्लक्षणम् तिष्ठद्धोमा बषटूार प्रदाना याज्या-
पुरोनुवाक्यावन्तो यजतयः ( काव्या० श्रौ० सू० ११२/६ ) इति ।
अत्र कर्कभाष्यं दृश्यम् ।
 
यजनम् –——यागवदस्यार्थोनुसंधेयः । तस्स्वरूपमुक्तं देवलेन पशुक्षीराज्य-
पुरोडाशसोमौषधिचरुप्रभृतिमिर्हविर्भिः खदिरपलाशाश्वत्थन्यग्रोधोदुम्बर-
-