2023-02-20 00:56:20 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
मोक्षः - १ निःश्रेयसम् । मिथ्यादर्शनादीनां बन्धहेतूनां निरोधेभिनव-
कर्माभावान्निर्जराहेतुसंनिधानेनार्जितस्य कर्मणो निरसनादात्यन्तिककर्म-
मोक्षणं मोक्षः ( सर्व० सं० पृ० ८० आई० ) इत्याईताः । आत्मो-
०
०
च्छेदो मोक्षः ( सर्व० सं० पृ० २४७ अक्ष० ) इति केचित् ।
स्वातध्यं मोक्षः ( सर्व० सं० पृ० २४९ अक्षपा० )
अविद्यास्तमयो मोक्षः ( सर्व० सं० पृ० ४०२ शां० )
२ मोचनम् । यथा नीविमोक्षो हि मोक्षः ( सा० द० ) इत्यादौ इत्या-
लंकारिका आहुः । ३ मरणम् ( हेम० )।
मोचनम् – १ [ क ] द्रबद्रव्यविभागानुकूलक्रिया । यथा जलं मुञ्चति
-
मेघ इत्यादौ । [ ख ] बहिः क्षरणावच्छिन्नव्यापारः ( श० प्र० श्लो० ७३
टी० पृ० ९८ ) । शिष्टं तु दोहनशब्दव्याख्याने द्रष्टव्यम् । २ मुक्तिः
( त्यागः ) । यथा रोगात्पापाद्वा मुच्यते इत्यादौ ।
इत्यन्ये ।
इत्यपरे ।
O
मोहः – १ मिथ्याप्रतिपत्तिलक्षण: दोषः ( वात्स्या० ४।१।३) । यथा
शरीरादावात्मभ्रमः ( त० दी० ) । तमोगुणप्रयोज्योन्तःकरणपरिणाम-
विशेषः इति सांख्या आहुः । तत्स्वरूपं तु उपेक्षाविषयत्वम् । उपेक्षा-
विषयत्वं नाम मोहः ( सर्व० सं० पृ० ३२६ सां० ) । संसारहेत्व-
विद्याप्रयोज्यान्तः करणवृत्तिविशेषः इति मायावादिन आहुः । भ्रान्ति-
साधनमज्ञानम् इति मेदिनीकार आह । २ वेदान्तिनस्तु मूर्छा इत्याहुः ।
अत्राधिकं तु मूर्छनशब्दव्याख्याने द्रष्टव्यम् । ३ चित्तवैकल्यं मोहः
( मिता० अ० २ श्लो० २१४ ) । ४ दुःखम् ( शब्दर० ) ।
मौनम् – बाग्व्यापारराहित्यम् । यथा मौनं सर्वार्थसाधनम् इत्यादौ ।
अत्रोच्यते । उच्चारे मैथुने चैव प्रस्रावे दन्तधावने । स्नाने भोजनकाले
च षट्सु मौनं समाचरेत् ॥ इति ( स्मृतिः ) ।
-
म्लेच्छः – १ अपशब्दः । अत्र प्रमाणं श्रुतिः म्लेच्छो ह वा नाम यदपशब्दः
इति । २ नीचजातिः । यथा अशपत्तान्मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः
(भाग ० स्क० ९ अ० १६ श्लो० ३३) इत्यादौ किरातादिजाति: (अमरः) ।
तदुक्तम् गोमांसखादको यस्तु विरुद्धं बहु भाषते । सर्वाचारविहीना म्लेच्छ
इसभिधीयते ॥ इति (बौधायन:) (वाच० ) । ३ पापरतः (मेदिनी ० ) ।