This page has not been fully proofread.

तस्य वाक्यार्थस्य परिषदा प्रतिवादिना त्रिरभिहितस्य पदमारणं
(अननुवादः ) तदननुभाषणं नाम निग्रहस्थानमिति । अत्युचारयन्कि-
माश्रयं परपक्षप्रतिषेधं ब्रूयात् ( वात्स्या० ५/२/१६ ) । [ ख ]
त्रिरभिधानेपि यत्रानुभाषणविरोधी व्यापारस्वत्राननुभाषणं नाम विम्लह-
स्थानम् । तदिदं चतुर्धा । एकदेशानुवादात् विपरीतानुवादात् केवल-
दूषणोत्तया स्तम्भेन वेति । सर्वनामपदेनानुवादात्पञ्चम्मित्याचार्या; (गौ०
१० ५/२/१६ ) ।
 
अनपदेशः – हेत्वाभासवदस्यार्थोनुसंधेयः ( त० व० ) ।
 
-
 
अनभ्यासदशाप अज्ञानम् - १ विशेषदर्शनाजन्यं ज्ञानम् । यथा स्थाणुर्वा
पुरुषो वा इति संशय: ( सि० च० ४ ) । अत्रेदं बोध्यम् । अत्रो-
दाहरणद्वयम् । स्थाणुर्वेत्येकं पुरुषो वेति द्वितीयम् । तथा हि भाद्यस्य स्थाणु-
त्ववान्वा तदभाववान्वेत्यर्थः । द्वितीयस्यापि पुरुषत्ववान्वा तदभाववान्वेति
चार्थः । स्थाणुत्वव्याप्यवक्रकोटरादिमानयमिति पुरुषत्वव्याप्यकरादिमा नय-
मिति वा विशेषदर्शने सति स्थाणुत्वस्य पुरुषत्वस्य वा निश्चय एव भवति
न तु संशय इति । २ प्राथमिकं ज्ञानम् । यथा इदं जलज्ञानं प्रमा सम-
र्थप्रवृत्तिजनकत्वात् इत्यत्र प्राथमिकं जलज्ञानम् ( त० कौ० ४ ) ।
अनवधारणम् – अनिश्चयात्मकं ज्ञानम् ।
 
-
 
अनवसरग्रहणम् – ( निग्रह स्थानम् ) १ अकाल एवोद्भावनम् । यथा त्यक्ष्य-
सि चस्पतिज्ञाहानिः विशेषयसि चेद्वेत्वन्तरमिति । २ अवसरमतीव्य
कथनम् । यथा उच्यमानप्राह्मस्यापशब्दादेः परिसमाप्तौ । एवमनुक्तप्राया-
ज्ञानाद्यननुभाषणावसरेनुद्भाव्यबोधाविष्करणानुभाषणप्रवृत्ते वादिनि तदु-
द्भावनमित्यादिकम्झम् ( गौ० वृ० ५/२/२२) । इदं निग्रहस्थानं च
गौतमोक्तनिप्रहस्थानस्य निरनुयोज्यानुयोगस्य प्रमेद इति वृत्तिकारेणाङ्गी-
कृतमिति विज्ञेयम् ।
 
अनबसादः – दैम्य विपर्ययोनषसादः ( सद० पृ० १२४ ) ।
अनवस्था - १ ( तर्क : ) [क] इसबस्तुस जातीयवस्तुपरंपराकल्पनस्व
 
-