2023-02-20 00:56:19 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
अथातो धर्मजिज्ञासा इत्यारम्य अन्वाहार्ये च दर्शनात् एतत्पर्यन्तो
द्वादशाध्याययुतः सूत्रोपनिबद्धः पूर्वमीमांसात्वेन प्रसिद्धोस्ति । द्वितीयस्तु
ब्रह्मविषयकसंशयनिवारको ग्रन्थो विष्ण्ववतारेण सत्यवतीसुतश्रीवेदव्यासेन
निर्मितः । स च ॐ अथातो ब्रह्मजिज्ञासा ॐ इत्यारभ्य ॐन पुनरा-
वर्तते ॐ इत्यन्तः सूत्रोपनिबद्धोभ्यायचतुष्कसमेतो वेदान्तत्वेनोत्तरमीमां-
सात्वेन च प्रसिद्धोस्ति इति ।
मुक्तः - भवान्तरप्राप्तिविधुरः ( सर्व० सं० पृ० ७१ आई० ) । अन्यत्र
चोक्तम् विद्यादिज्ञापितैश्वर्यश्विद्धनो मुक्त उच्यते ( सर्व० सं० पृ० १९९
प्रत्य० ) ।
मुक्तत्वम् – जीवध्वं नाम संसारित्वम् । तद्विपरीतं मुक्तत्वम् ( सर्व० सं०
पृ० २०६ रसे० ) ।
०
मुक्तिः - १ संसारोपरमः । २ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं
स्वरूप प्रतिष्ठा वा चितिशक्तिरिति ( सर्व० सं० पृ० ३८७ पात ० ) ।
३ नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः (सर्व० सं० १० २५० अक्ष० ) ।
४ प्रकृति पुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिः
( सर्व० सं० पृ० २४९ अक्षपा० ) । ५ आवरणमुक्तिर्मुक्तिः ( सर्व०
सं० पृ० २४८ अक्षपा० ) । ६ लब्धानन्तचतुष्कस्य लोकागूढस्य
चात्मनः । क्षीणाष्टकर्मणो मुक्तिर्निव्र्व्यावृत्तिर्जिनोदिता ॥ ( सर्व० सं०
पृ० ८८ आई० ) । ७ गतसमस्तक्लेशतद्वासन स्थानावरणज्ञानस्य
सुखैकतानस्यात्मन उपरिदेशावस्थानं मुक्तिः ( सर्व० सं० १० ८१
आई० ) ।
८ रागादिज्ञानसंतानवासनोच्छेदसंभवा । चतुर्णामपि
बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥ ( सर्व० सं० पृ० ४६ बौ० ) ।
९ मोचनम् निःसरणं वा मुक्तिः इति काव्यज्ञा आहुः ।
मुखम् – नाडिका पञ्चकम् । पञ्चनाडीपरिमितं मुखम् ( पुच्छशब्दे दृश्यम् ) ।
मुख्य:- -१ प्रथमकल्पः । २ श्रेष्ठः । ३ प्रधानम् । अत्रायं विशेषो ज्ञेयः ।
कारण निष्ठं मुख्यत्वं च स्वेतर साधारणकारणककार्यकभिन्नत्वम् ।
-
( त० प्र० १ पृ० ७ ) । यथा मुक्ति प्रति तत्त्वज्ञानरूपकारणस्य