2023-02-20 00:56:19 by ambuda-bot
This page has not been fully proofread.
६५४
न्यायकोशः ।
अधी वा मीमांसकः इति । क्रमादिम्यो वुन् (पा०४/२/६१ )
इत्यनेन वुन् । [ख] कर्मैव वेदमुख्यतात्पर्यम् इति यो मन्यते सः ।
यथा महर्षिर्जेमिनिः । मीमांसकमते कर्मैवेश्वरः । तदन्यश्चेतनरूपो
भगवान् नास्ति । स्वर्गादिकमेव पुरुषार्थः । मन्त्रमयी मन्त्रगतलिङ्गलिङ्गित
अग्नीन्द्रादिर्वा देवता । अर्थवादो न प्रमाणम् इति । तत्र मीमांसकैक-
देशिनस्तु यथा भूपाल: परिचारकृतकर्मणः फलदाता तथा वेदोक्तकृत-
कर्मणः फलदातेश्वर एव इति समूचिरे ( सि० च० १ पृ० ११) ।
अत्रेदं ज्ञेयम् अर्वाचीना मीमांसकाश्च त्रयः (१) प्रभाकरापरनामा गुरुः
(२) भट्टः तुतातः कुमारिलो वा (३) मुरारिमिश्रश्च इति । वेदे भागत्रयम्
कर्मकाण्डः उपासनाकाण्ड: ज्ञानकाण्डश्चेति । तत्र कर्मकाण्डे द्वादशा-
ध्यायात्मकं सूत्रप्रन्थं प्रणिनाय जैमिनिः । कर्मकाण्डोपयोगस्तु ज्ञानयोगेन
सांख्यानां कर्मयोगेण योगिनाम् इति भगवद्गीतया तमेतं वेदानुषचनेन
ब्राह्मणा विविदिषन्ति यज्ञेन तपसा अनाशकेन इति श्रुत्या च कर्मणां
विविदिषाहेतुत्वोक्तेः विविदिषायामेव कर्मकाण्डप्रतिपाद्यकर्मण उपयोग:
इति केचिद्वदन्ति (वाच० ) । वयं तु कर्मणा ज्ञानमातनोति इत्यादि-
वचननिचयेन कर्मणोप्यपूर्वद्वारा भगवज्ज्ञानतत्प्रसाद
प्राप्ति हेतुत्वमस्ति इति
बाहुल्येन तदुपयोगः इति भगवदपरोक्षज्ञानानन्तरमपि कृतात्कर्मणो
मोक्षफले सौकर्यविशेषो भवति इति कर्मणो बहूपयोगः इति च मन्या-
महे । २ सिद्धान्तकारकः । अत्रार्थे मीमांसकशब्दे व्याकरणम् मान-
विचारे । स्वार्थे सन् । ण्वुल् इति ज्ञेयम् ।
-
मीमांसा - १ लाघवज्ञानात्मकस्तर्कः ( दि० ४ पृ० १८९) । मीमांसा-
शब्दे व्याकरणम् मानविचारे । स्वार्थे सन् । अप्रत्ययात् ( पा०
३।३।१०२ ) इत्यनेन स्त्रियामप्रत्ययः इति ज्ञेयम् । २ विचारपूर्वक
तत्त्वनिर्णयः । यथा धर्ममीमांसा ब्रह्ममीमांसा इत्यादौ वेदार्थस्य मीमांसा ।
विचारः इत्यपि केचिद्वदन्ति । ३ तादृशतत्त्वनिर्णयप्रतिपादको ग्रन्थ-
३
विशेषः ( शास्त्र विशेषः ) । स च कर्मब्रह्मविषयभेदेन द्विविधः । तत्राद्यः
कर्म विषय कसंशय निवारको ग्रन्थो महर्षिजैमिनिना प्रणीतः । स च