This page has not been fully proofread.

न्यायकोशः ।
 
भगवनत्यात्मकं मङ्गलम् । इदं च नमस्कार सामान्य स्वरूपम् इति तर्क-
प्रकाशकृतोमिप्रायः इति तद्भन्थात्प्रतिभाति ।
 
-
 
माया – १ ( दोषः ) परवञ्चनेच्छा ( गौ० वृ० ४ । १ । ३ ) । यथा माया-
बादतमोव्याप्तं जगत् इत्यादौ त्वद्व्याख्यासिंहनादे सपदि ददृशिरे मायि-
गोमायवस्ते ( वायुस्तुतौ ) इत्यादौ च माया । २ भगवदिच्छा ( भाग ०
टी० विज० ११ । २ । ३७ ) । यथा यन्माययातो बुध आभजेत्तम्
(भाग० ११ । २ ।३७ ) ( ब्र० सू० मध्व० मा० १।४।२५ ) इत्यादौ ।
यथा वा मम माया दुरत्यया ( गीता ० ७ ११४ ) इत्यादौ । तदुक्तम्
मायेत्युक्ता प्रकृष्टत्वात्प्रकृष्टे हि मयाभिधा ( सर्व० सं० पृ० १४१
पूर्ण० ) इति मध्वमतानुयायिनः प्राहुः । ३ भगवच्छक्ति विशेष : इति
बल्लुमीया मन्यन्ते । ४ मायाशब्दो विचित्रार्थसर्गकरत्रिगुणात्मकप्रकृत्य-
भिधायको नानिर्वचनीयाज्ञानवचनः इति रामानुजीयाः ( सर्व० सं०
पृ० १०० रामा० ) । ५ मायावादिवेदान्तिनस्तु मिथ्याबुद्धिहेतुभूतम-
ज्ञानं माया । तच्चाज्ञानमीश्वरोपाधिः । मात्यस्यां शक्त्या प्रलये सर्व जगत्
सृष्टौ व्यक्तिमायातीति माया ( सर्व० सं० पृ० १८९ शैव० ) इति
वदन्ति । ६ आदिमाया आदिशक्ति चण्डी इत्याद्यपरनाम्नी कालिका
इति शाक्ता आहुः । ७ कापट्यम् । ८ दम्भः इति काव्यज्ञा वदन्ति ।
मायामात्रम् - माया भगवदिच्छा । सैव मानत्राणकर्त्री यस्य तन्माया-
मात्रम् ( सर्व० सं० पृ० १४१ पूर्णप्र० ) ।
 

 
मारुतम् – ( नक्षत्रम् ) स्वाती ( पु० चि० पृ० ३५७ ) ।
मार्गः – क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा। स मार्ग इति
विज्ञेयः स च मोक्षोभिधीयते ॥ ( सर्व० सं० पृ० ४६ बौ० )।
मार्जनम् – लक्ष्णीकरणम् (जै० न्या० अ० १० पा० १ अधि० ११ ) ।
मासः : - प्रथमः सावनो मासो द्वितीयश्चान्द्र उच्यते । नाक्षत्रस्तु तृतीयः
स्यात्सौरो मासश्चतुर्थकः ॥ (पु० चि० ० ३ ) । चन्द्रमाः पौर्णमा-
स्यन्ते मास्करादतिरिच्यते । राशिष्टुं तथा राम मासार्धेन न संशयः ॥
 
-