2023-02-20 00:56:18 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
६५१
महावारुणी- चैत्रकृष्णत्रयोदश्यां शनिवारयोगे सति शततारकानक्षत्रं
चेन्महावारुणी । वारुणेन समायुक्ता मधौ कृष्णत्रयोदशी । गङ्गायां यदि
लभ्येत सूर्यप्रहशतैः समा ॥ शनिवारसमायुक्ता सा महावारुणी स्मृता ।
गङ्गायां यदि लभ्येत कोटिसूर्यग्रहै: समा ॥ शुभयोगसमायुक्ता शनौ
शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥ ( पु० चि०
पृ० २३१ ) ।
-
महाषष्ठी - वृश्चिकार्के शुरुषष्ठी भौमवारेप्युपस्थिते । महाषष्ठीति सा प्रोक्ता
सर्वपापहरा तिथि: ॥ ( पु० चि० पृ० १०२) ।
-
माध्यमिकः – ( बौद्धः ) गुरूक्तस्याकरणादुत्तमाः पर्यनुयोगस्याकरणादध-
माश्च । अतस्तेषां माध्यमिका इति प्रसिद्धि: ( सर्व० सं० पृ० ३०
बौ०) ।
-
मान: - १ [ क ] ( दोषः ) आत्मन्यविद्यमानगुणारोपेणोत्कर्षधीः ( गौ०
वृ० ४।१।३ ) । यथा पराभवोप्युत्सव एव मानिनाम् ( किरा० स०
१ श्लो० ४१ ) इत्यादौ मानः । [ ख ] अभिमानः इति केचन
मन्यन्ते । २ परिमाणम् । यथा मानव्यवहारासाधारणकारणं परिमाणम्
इत्यादौ हस्ततुलाप्रस्थादिरूपो द्रव्यपरिच्छेदो मानम् । ३ प्रमाणम् ।
यथा मानाधीना मेयसिद्धिः इत्यादौ मानम् । ४ गानाङ्गे तालक्रियायां
तालविरामोपलक्षितः कालव्यापारो मानम् इति गायका आहुः ।
५ आलंकारिकास्तु अनुरक्तदम्पत्योरवस्था विशेषः शृङ्गाराङ्गभूतः कोपः ।
तथा चोक्तम् । मानः कोपः स तु द्वेधा प्रणयेर्ष्यासमुद्भवः । द्वयोः प्रणय-
मानः स्यात्प्रमोदे सुमहत्यपि ॥ प्रेम्णः कुटिलगामित्वात्कोपो यः कारणं
विना ( सा० द० १० ३ श्लो० २१८) इति । स्वाभीष्टाश्लेषवीक्षादि-
विरोधी मान उच्यते इति च । यथा मुञ्च मयि मानमनिदानम् (जयदेव:)
इत्यादौ इत्याहुः । ६ संमान: ( आदर: ) इति काव्यज्ञा आहुः ।
मानसिकः – ( नमस्कारः ) । अत्र मानसिकत्वं च मानसत्वव्याप्यो जाति-
विशेष: ( मू० म० १ पृ० १०५ ) । अयं मत्त उत्कृष्ट : अहमस्माद-
पकृष्टः इति ज्ञान विशेष : ( त० प्र० १ पृ० ३-४ ) । यथा प्रणम्य
परमात्मानं जानकीनाथशर्मणा ( न्या० म० १ पृ० १ ) इत्यादौ