2023-02-20 00:56:17 by ambuda-bot
This page has not been fully proofread.
६५०
न्यायकोशः ।
उत्कीर्तनं हरेरेव देवानां च पृथक् पृथक् ॥ महापुराणं विज्ञेयमेकादशक-
लक्षणम् (ब्रह्मवै० ज० अ० १३२ ) इति ।
महाप्रलयः
– ( प्रलय: ) [ क ] चरमसंयोगनाश: ( ग० सिद्धा० ) ।
[ख ] सर्वभावकार्यध्वंस: ( त० दी० १ पृ० १० ) । केचितु
पौराणिकादयः जन्यभावानधिकरणकालः इत्याहुः । तस्योत्पत्तिनियमस्तु
महान् प्रलयो ब्रह्मणः स्वमानेन शतवर्षावसाने जायते इति । अत्रेदं
बोध्यम् । महाप्रलयानन्तरं न सृष्टिः । सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्या-
दृष्टस्यापायात् । सर्वभोक्त्रपवृक्तौ प्रयोजनाभावाच्च । न हि बीजप्रयो-
जनाभ्यां विना कार्योत्पत्तिः इति ( प० मा० ) । महाप्रलयो न प्रमाण-
सिद्धः इति नव्यनैयायिका आहुः । अत्राधिकं तु प्रलयशब्दे द्रष्टव्यम् ।
महामाघी - मेषराशौ यदा सौरिः सिंहे चन्द्रबृहस्पती । भास्करः श्रवण
स्यान्महामाधी च सा स्मृता ॥ (पु० चि० पृ० ३१४ ) ।
महालयः - भाद्रपदापरपक्ष: (पु० चि० पृ० २१ ) ।
महावाक्यम् – १ [ क ] स्वघटकानेकनामलभ्यतादृशार्थबोधकं वाक्यम् ।
अत्र तादृशार्थबोधस्तु तत्तदर्थावच्छिन्नविषयताशाली इति बोध्यम् ( श०
प्र० श्लो०
० ३० टी० पृ० ४४ ) । यथा महावाक्यार्थबुद्धिं प्रति खण्ड-
वाक्यार्थज्ञानं कारणम् इति कार्यकारणभावे वक्तव्ये पञ्चावयवोपेतन्याय-
वाक्यम् । अत्र प्रतिज्ञा दिघटितपञ्चावयवोपेतमहावाक्यजनितसमुदितार्थ-
विषयकशाब्दबुद्धौ प्रतिज्ञादिरूपावान्तरवाक्यार्थज्ञानं कारणम् इति कार्य-
कारणभावो द्रष्टव्यः । अत्रोच्यते भर्तृहरिणा स्वार्थबोधे समाप्तानामङ्गाङ्गि-
त्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥ ( वाक्यपदीये)
इति । [ख] परस्परसंबद्धार्थकं वाक्य समुदायरूपमेकवाक्यम् । यथा
मीमांसकानां नये दर्शपूर्णमासाभ्यां यजेत ज्योतिष्टोमेन स्वर्गकामो यजेत
इत्यादिप्रधानवाक्यस्य गुणविधिना सह्रैकवाक्यत्वम् । २ अखण्डार्थ-
बोधकम् । यथा मायावाद्यद्वैतमते तत्त्वमसि ब्रह्माहमस्मि इत्यादीनि द्वादश
महावाक्यानि । साहित्यशास्त्रज्ञास्तु वाक्योच्चयो महावाक्यम् । यथा रामा-
यणमहाभारतरघुवंशादि ( सा० द० उ० २ लो० ७) इत्याहुः ।
:
-