This page has not been fully proofread.

586
 
न्यायकोशः ।
 
बोधः । संसारे मुक्तिकालप्रागभाषाधिकरणनिरूपिततद्भिनकालावृत्तित्व-
विशिष्टव्यापकताबोधस्त्वार्थः । कालगतमर्यादास्वं च स्वस्वोत्तरकालो-
भयप्रागभावाधिकरणकालमवो यः समभिव्याहृत पदार्थः तदनधिकरणत्वम्
( उ० म० सुबर्थ० पृ० ११३) । द्वितीया देशरूपा यथा प्रयागा-
व्प्रभृत्या काश्या दृष्टो देवः इत्यादौ देशे मर्यादा । अत्र प्रयागादिकाशी-
मर्यादक दृष्टिकर्ता देवः इति बोधः । वृष्टौ प्रयागादिकाशीपश्चिमदेश-
निरूपितस्व भिन्नावृत्तित्वसमानाधिकरणव्यापकताबोधस्त्वार्थः । अत्र देश-
गतमर्यादात्वं तु स्वस्वोत्तरदेशयोः प्रयागतदाद्यन्तरालदेशवृत्तिसमभि-
व्याहृतपदार्थदृष्ट्याद्यनधिकरणत्वम् इत्याहुः । २ न्यायपथस्थित्तिः इति
नीतिशास्त्रज्ञा आहुः । ३ कूलम् इति काव्यज्ञा आहुः ।
 
-
 
-
 
मलः – १ आत्माश्रितो दुष्टभावो मलः । स च मिथ्याज्ञानादिभेदारपञ्च-
विधः । तदप्याह मिथ्याज्ञानमधर्मश्च सक्तिर्हेतु युतिस्तथा । पशुत्वमूलं
 
तन्त्रे हेया विविक्तितः ॥ ( सर्व० सं० पृ० १६३ नकु० ) ।
२ मलं वदन्ति कालस्य मासं काल विदोधिकम् ( पु० चि० पृ० १२) ।
मलमासः - चान्द्रमासो ह्यसंक्रान्तो मलमासः प्रकीर्तितः ( पु० चि०
पृ० १२ ) ।
 
मलिम्लुचः - शुक्कप्रतिपदादिदर्शान्तमासमतिक्रम्य
 
-
 
सूर्यो राश्यन्तरं गच्छति
तदा पूर्वो मलिम्लुचः द्वितीयः संक्रान्तियुक्तः प्राकृतः । इन्द्राग्नी यत्र
हुयेते मासादिः स प्रकीर्तितः । अग्नीषोमौ स्थितौ मध्ये समाप्तौ पितृ-
सोमकौ ॥ तमतिक्रम्य तु यदा रविर्गच्छेत्कदाचन । आयो मलिम्लुचो
ज्ञेयो द्वितीयः प्राकृतः स्मृतः ॥ ( पु० चि० पृ० १२ ) ।
 
-
 
महती — भरणी पितृपक्षे या महती परिकीर्तिता ( पु० चि० पृ० ३८५ ) ।
महत्तत्त्वम् – मूलप्रकृतेर्बुद्धिरूपः परिणाम विशेष: ( सां० का० ) ।
महत्वम् - १ ( परिमाणम्) इदं महत् इति प्रतीतिसाक्षिकः परिमाण-
विशेषः । यथा महत्त्वं षड़िधे हेतुः (भा० प० को० ५९) इत्यादौ ।
तल्लक्षणं च मानव्यवहारासाधारण कारणत्वम् । द्रव्यसाक्षात्कारकारण-