This page has not been fully proofread.

१८
 
स्वविशिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छेदकावच्छेद्यत्वम् ( दीषि०
२ ) । यथा पर्वतो वह्निमान् घूमादित्यादौ वह्नित्वात्मकस्य साध्यताव-
च्छेदकस्य हेतु - ( धूम ) समानाधिकरणाभावप्रतियोगितानवच्छेदकत्व-
मित्यादौ ( ग० च० २ ) ।
 
-
 
अनघतनत्वम् - [ क ] प्रकृतशब्दप्रयोगाधिकरणदिनावृत्तित्वम् । यथा
तण्डुलमपचदित्यादौ लबर्थ: (ग० व्यु० ल० ) । [ख ] अद्यतनभिन्नः
कालोनद्यतन इति शाब्दिका वदन्ति ( ल० म० ) ।
 

 
अनध्यवसाय:- १ विपर्ययः ः । यथा इदं किंचित् इति ज्ञानम् । अयं
विशेषादर्शनेन जन्यत इति विज्ञेयम् ( सि० च० ४ ) । २ यस्तु
ज्ञानविशेष: स्यादसाधारणधर्मजः । जिज्ञासाजनक: सोनध्यवसाय इहो-
च्यते ॥ भवति हि नित्यानित्यव्यावृत्तं शब्दत्वं शब्दे उपलममानस्य शब्द:
किं नित्यः आहोखिदनित्यः इति जिज्ञासा । अयं च वैशेषिकमते अवि-
द्याप्रमेद: ( त० व० २१८ ) । ३ अविद्याविशेषः । अनध्यवसायोपि
प्रत्यक्षानुमानविषये एव संजायते । तत्र प्रत्यक्षविषये तावत् - प्रसिद्धार्थेष्य-
प्रसिद्धार्थेषु वा व्यासङ्गादर्थिवादा किमिदम् इत्यालोचनामात्रमनध्यव-
सायः । यथा - वाहीकस्य पनसादिष्वनध्यवसायो भवति । अनुमानविषयेपि
नारिकेलद्वीपबासिनः सास्नामात्रदर्शनात् को नु खल्वयं प्राणी स्यात्
इत्यनध्यवसायो भवति ( प्रशस्त ० २ पृ० ४८ ) । ४ वेदान्तिनस्तु-
किंसंज्ञकोयं वृक्षः इति संज्ञाविषयकं जिज्ञासामात्रमित्याहुः ( प्र०प०
पृ० ५ ) । ५ हेतुदोषविशेषः ।
 
अनध्यवसितः - ( हेत्वाभासः) यश्चानुमेये विद्यमानस्तत्समानासमानजातीय-
योरसन्नेव सोन्यतरत्रासिद्धः अनध्यवसायहेतुत्वादनध्यवसितः । यथा-सत्
कार्यमुत्पत्तेः इति ( प्रशस्त० २ १० २९ ३० ) । तथा च - अन-
ध्यषसितत्वं पक्षमात्रवृत्तित्वम् । यथा - पर्वतो वह्निमान्पर्वतत्वात् इत्यादौ
पर्वतत्वहेतावनभ्यवसितत्वम् ।
 
-
 
अननुभाषणम् – ( निग्रहस्थानम् ) [ क ] विज्ञातस्य परिषदा त्रिरभिहित-
स्याप्यप्रत्युच्चारणमननुभाषणम् ( गौ० ५ । २ । १६ ) ( नील० ) । विज्ञा-