This page has not been fully proofread.

तृतीयावृत्तावुपोद्वातः ।
 
१ कोशामिधया प्रसिद्धेषु ग्रन्थेषु न्यायशास्त्र विषये न्यायकोशो नाम
प्रस्तुतो ग्रन्थ एक एव दृष्टिपथमवतरति । यस्मिन्कस्मिन्नपि दर्शने शास्त्रे वा
यावत्कालपर्यन्तं न लिखिता बहवो ग्रन्था न परिभाषाः सांकेतिकाः शब्दा
वा विस्तरेण विवेचिता न वा विरचितानि चर्चारूपाणि विवरणानि न च
प्रणीता वृत्तयो विवृतयष्टीकाश्च न चापि प्रसृता विद्वगोष्ठीषु विवादास्ताव-
कालपर्यन्तं प्रायो न वर्तते कोशग्रन्थानां रचनावसरस्तस्मिन्विषये इति तु
ढोके बहुशो वयं पश्याम: । प्रतिपाद्यविषयस्य विस्तारस्तस्य च सप्रपञ्चं
नैकविधया रीत्या स्थाने स्थाने विवेचनं द्वयमेतत्कोश निर्माणावसरदाने प्रायः
प्रयोजकम् । अत एव बहुभिकैः प्रयुज्यमानायां भाषायां ये शब्दाः
प्रत्यहं प्रयुज्यन्ते तेषां कोशाः प्रथमं प्रणीयन्तेऽनन्तरं विशिष्टानां नामा-
रूयातादीनामपरेषां च शब्दानां कोशाः प्रणीयन्ते तदनन्तरं च वेदादिवि-
शिष्टविषयेषु प्रयोगवैशिष्यमर्धवैशिष्ट्यं वा प्रतिद्धानानां शब्दानां कोशा
निर्मीयन्ते । प्रत्यहं विस्तारमुपगच्छस्मु शास्त्रार्थविषयेषु समुपजायमानतया
शब्दार्थविशेष बाहुल्यस्य, मर्यादिततया च मानुषस्य मनसो धारणाशक्तेर्बु-
द्धेश्व विषयाकलनशक्तेर्यथा यथा वृद्धि समुपयान्ति शास्त्रार्थविषयास्तथा
तथा प्रगुणीभवति प्रयोजनमपि कोशादिग्रन्थानाम् । शास्त्रमन्थोपस्थिति प्रति
प्रतिदिनमधिकतरं जायमानोनादरोपि बद्धादरं कोशादिकपर्यालोचने कुरुते
जनमित्यपि प्रत्यक्षीकुर्महे ॥
 
-
 
२ पर्या लोच्यमानायामुपरिनिर्दिष्टायां विचारसरण्यामेतावस्कालपर्यन्तं न्या-
यशास्त्रे परिदृश्यमानस्य कोशम्रन्थाभावस्य हेतुरपि सुतरां प्रतीतो भवति ।
पुरातने काले यस्मिन्कस्मिन्नपि सांख्ययोगादौ मीमांसाव्याकरणादौ वा
शास्त्रे पारंगततामुपेयुष पण्डितप्रवराणां न्यायशास्त्रगतैस्त र्कदीपिकामुक्ताब-
लीचिन्तामण्यादिभिः प्राथमिकैर्मन्थैः परिचयस्य नितरामावश्यकतया संपा
दितत्व सख्य योगशास्त्राभ्ययनाभ्यापनादिकर्मणि व्यापूतानाममीषां न्याय-