This page has not been fully proofread.

न्यायकोशः ।
 
कपिञ्जलानालभेत इत्यादिषु विध्यादिरूपेषु मत्रेष्वव्याप्तेः । किंतु याज्ञिक
समाख्यातं लक्षणं मन्त्राणां दूषणरहितं बोध्यमिति ( जै० सू० पृ०
अ० २ पा० १ सू० ३० टि० ) । ते च मन्त्रा द्विविधाः वैदिका -
स्ताविकाच । वैदिकाश्च द्विविधाः प्रगीता अप्रगीताश्च । प्रगीताः
सामानि । अप्रगीताश्च द्विविधाः छन्दोबद्धास्तद्विलक्षणाच ( सर्व० सं०
पृ० ३६८ पात० ) । तान्त्रिकलक्षणं स्त्रीपुंनपुंसकभेदेन मन्त्रत्रैविध्यं
मन्त्राणां दशविधः संस्कारः सर्वदर्शनसंग्रहे ( पृ० ३६८- ३७०)
दृश्यः । [ग] क्वचित् प्रतिसूचितः शब्दः । यथा तद्विष्णोः परमं पदं
सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ( ऋ० ११ १२६ ) इति ।
२ रहसि कर्तव्यावधारणार्थे गुप्तभाषणं मन्त्रः इति नीतिशास्त्रज्ञा वदन्ति ।
 
मत्रेश्वरः – तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्समाश्च वीरेशः । श्रीकण्ठः
 
शतरुद्राः शतमित्यष्टादशाम्यधिकम् ॥ ( सर्व० सं० पृ० १८६ शै० ) ।
मन्थः - द्रवद्रव्ये प्रक्षिप्य मथिताः सक्तवो मन्थः ( जै० न्या० अ० १०
पा० ३ अधि० १ ) ।
 
matagal
 
मन्थनम् - उत्थानावच्छिन्नोन्मन्थनम् । यथा सुधां समुद्रं मनातीयत्र
धात्वर्थः । उन्मन्थनमालोडनम् । अत्र सुधोत्थानानुकूलं यत्समुद्रस्यो-
न्मन्थनं तत्कर्ता इत्यर्थः । अत्रत्यगौण कर्मत्वादिविषय विशेषविचारस्तु दोह-
नादिशब्दव्याख्याने द्रष्टव्यः ।
 
-
 
मन्दनम् – उपहतपादेन्द्रियस्येव गमनम् ( सर्व० सं० पृ० १७० ) ।
ममता – १ स्वकीयत्वाभिमानः । यथा ममत्वं मम राज्यस्य ( देवीभाग० )
इत्यादौ । २ केचिद्वेदान्तिनस्तु अहंकारः । यथा वल्लभमते अहंता-
ममतात्मकः संसार: इत्यादौ इत्यमन्यन्त । अत्र व्याकरणं बोध्यम् ।
षष्ठ्यर्थवृत्तेरस्मच्छब्दस्यार्थे मम इत्यव्ययम् । तदुत्तरं तल्प्रत्ययः । एवं च
ममता इति रूपं सिद्ध्यति ।
 
-
 
मरणम् - [क] जीवनादृष्टनाशः । मरणं च धर्माधर्माधीनम् ( वै०
उ० ६।२।१५ ) । तथा च सूत्रम् तत्संयोगो विभागः इति