This page has not been fully proofread.

न्यायकोशः ।
 
इडव्यम् । तथा मन्ते न प्रत्यक्षम् । अपि तु अनुमेयमेव । तथाहि ।
सुखदुःखोपलब्धयश्चक्षुरादिव्यतिरिक्तकरणसाष्याः असत्स्वपि चक्षुरादिषु
जायमानत्वात् घटवत् इति । यञ्च सुखाद्युपलब्धिकारणम् तन्मनः
( त० भा० प्रमेयनि० पृ० ३२) । अथवा सत्यप्यात्मेन्द्रियार्थसांनिध्ये
ज्ञान सुखादीनामभूत्वोत्पत्तिदर्शनात् कारणान्तरमनुमीयते । श्रोत्राद्यव्यापारे
स्मृत्युत्पत्तिदर्शनात् बाह्येन्द्रियैरगृहीतसुखादिग्राहकान्तराभावाच्चेति ( प्र -
शस्त० मनोनि० पृ० २३) । आईतास्तु भौतिका एव परमाणवः
अणवो वा मनांसि इत्याहुः । वायुरेव मनः इत्यपि केचिदाहुः
( मौ० दृ० ३।१४० ) । नव्यास्तु अनुद्भूतविशेषगुणवदसमवेतभूतमेव
मन इत्याहु: ( राम० ११० १९८) । मनो विभु इति मीमांसका
आहुः । तन्मते मनसो विभुत्वे प्रमाणमनुमानम् । तच्च मनो विभु
निस्पर्शद्रव्यत्वात् आकाशबत् इति । जातेर्नियतसंस्थानव्यङ्ग्यत्वात् मनसि
च संस्थानाभावान्मनस्त्वं न जातिः । किंतु मनस्त्वं च आत्मान्यत्वे सति
ज्ञानासमवायिकारणसंयोगाश्रयत्वम् ( न्या० म० १।१४ ) । अथवा
मनो विभु विशेषगुणशून्यद्रव्यत्वात्कालवत् इति । यद्वा मनो विभु ज्ञाना-
समवायिकारणसंयोगाधारत्वात् आत्मवत् इति ( वै० उ० ३।२।१ ) ।
मनो नेन्द्रियम् इति मायावादिनो वेदान्तिनो वदन्ति । न्यायनये मन-
स्यष्टौ गुणास्तिष्ठन्ति संख्या अणुपरिमाणम् पृथक्त्वम् संयोगः विभागः
परत्वम् अपरत्वम् वेगश्चेति (वै० ३१२१२ - ३ ) ( प्रशस्त० मनोनि०
१० २३ ) ( त० भा० ) ( न्या० म० ) ( भा०प० ) ( सि० च० )।
तथा च मनसः क्रियावत्त्वान्मूर्तत्वम् गुणवत्त्वाद्रष्यत्वम् प्रयत्नादृष्टपरि-
ग्रहवशादाशुसंचारित्वम् ( प्रशस्त० पृ० २३-२४ ) इति । माया-
बादिनस्तु संकल्पविकल्पात्मक वृत्तिमदन्तःकरणं मन इत्याहुः । तच्च
तन्मते सुखदुःखादी नामाधारः । अत्र श्रुतिं प्रमाणयन्ति मायावादिनः
कामः संकल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरभृतिभिरित्येतत्सर्वे
मन एव ( बृ० उ० ११५ । ३ ) इति । न्यायमते तु तदाधार आत्मैव
इति भेदः । २ मनः शिलानामको धातुविशेषः इति भिषज आहुः ।