2023-02-20 00:56:16 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
६४३
वैशेषिके सिद्धम् । एवं प्रतितन्त्रसिद्धान्तोत्र द्रष्टव्यः ( त० भा० पू०
४२ ४३ ) । सुखादिप्रत्यक्षसाधनत्वेनापि मन इन्द्रियं सिद्धयति
( न्या० वा० पू० ४१ ) । अत्रेदं बोध्यम् । मनः सर्वविषयकज्ञानजनक-
मपि बहिर्विषयकज्ञानजनने परतन्त्रम् । स्वेतरब हिर्विषयकज्ञानजनक सामग्री-
सापेक्षम् इत्यर्थः । अबाह्यविषयकज्ञाने तु मनः स्वतन्त्रम् । अबाह्यानि
तु आत्मा तद्योग्यगुणाः तदभावः तद्भुत्तिजातिव इति ( न्या० म० १
पृ० ५ ) ( त० प्र० १ पृ० ३० ) । तच्च मनः प्रत्यात्मनियत-
त्वादनन्तम् अणु नित्यम् अतीन्द्रियं चेति ( त० सं० ) ( त० भा०
प्रमे० पृ० ३२ ) । अत्र समवेतभोगकारणत्वे सति असमवेतभोग-
कारणत्वं नियतत्वशब्दार्थ: । द्वितीयार्थो निरूपितत्वम् । तस्य च सम-
वेतत्वद्वयेन्वयः । पञ्चम्यर्थः प्रयुक्तत्वम् । तस्य चानन्तत्वेन्वयः । तथा
च तत्तदात्मसमवेतभोगजनकत्वविशिष्टतत्तदात्मासमवेतभोगजनकत्वप्रयु
क्तानन्तत्ववन्मनः इति वाक्यार्थ: ( वाक्य० पृ० ७ ) । तच्च प्रतिजीवं
भिन्नम् ( त० कौ० ) प्रतिशरीरमेकैकमेव ( बै० उ० ३१२ । ३ ) ।
अत्र प्रमाणम् प्रयत्नायौगपद्याज्ज्ञानायौगपद्याञ्चैकम् (वै० ३ । २ । ३) इति ।
सिद्धम् । अत एव पृथक्त्वम्
प्रयत्नज्ञानायौगपद्यवचनात्प्रतिशरीरमेकत्वं
( प्रशस्त ० ) । मनसो विभुत्वाङ्गीकारे आत्मनो मनसा संयोगस्य ज्ञान -
कारणत्वानुपपत्तिः इति दूषणं बोध्यम् । इदमत्राकूतम् । आत्मा विभुः
इति सिद्धान्तः । तथा च मनसोपि विभुत्वाङ्गीकारे विमुद्वयस्यापि
संयोगापत्तिः । न च विभुद्वयसंयोगोस्तु इति वाच्यम् । तादृशसंयोगस्य
सर्वदा सर्वत्र सत्त्वप्राप्तौ सुषुप्तिरेवानुपपन्ना स्यात् । अतो मनोण्वेव
इत्यङ्गीकर्तव्यम् इति । तथा सुखादीनां पादे मे सुखम् शिरसि मे वेदना
इति प्रादेशिकत्व नियमार्थे प्रादेशिका समवायिकारणम् आत्ममनः संयोग-
रूपमङ्गीकर्तव्यम् । शब्दादौ विभुकार्ये तथैवावधारणात् इति । योग-
शास्त्रबोधितप्रत्याहारान्यथानुपपत्या च मनोणुत्वसिद्धिः इति केचिदाहुः
( न्या० सि० दी० पृ० २१ ) । तथा मनो नित्यम् । तत्र प्रमाणं
सूत्रम् तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ( बै० ३१२१२ ) इति