This page has not been fully proofread.

न्यायकोशः ।
 
मतिः – १ बुद्धिः ।
 
यथा तच्छ्रन्ये तन्मतिर्या स्यादप्रमा सा निरूपिता
( भा० प० श्लो० १२८ ) इत्यादौ मतिशब्दार्थो बुद्धिः । २ इच्छा ।
३ मतिकरौषधम् ( गरु० अ० १९८ ) इति भिषज आहुः (वाच० ) ।
४ मननविशेषः । ज्ञानावरणक्षयोपशमे सतीन्द्रियमनसी पुरस्कृत्य
व्यापृतः सन्यथार्थे मनुते सा मतिः ( सर्व० सं० पृ० ६३ आई० ) ।
मत्सरः – ( दोषः ) [क] स्वप्रयोजनप्रतिसंधानं विना पराभिमत-
निवारणेच्छा । यथा राजकीयादुदपानान्नोदकं पेयम् इत्यादि । [ख ]
परगुण निवारणेच्छा ( गौ० वृ० ४ । १ । ३ ) । अत्रापि स्वप्रयोजनप्रति-
संधानं विना इति पूरणीयम् इति तु वयम् । [ग] अन्यशुभद्वेषः इति
केचिदाहु: ( वाच० ) । [६] ] अन्येतु निन्दन्ति मां सदा लोका
धिगस्तु मम जीवनम् । इत्यात्मनि भवेद्यस्तु धिक्कारः स च मत्सरः ॥
इत्याहुः ( क्रियायोगसारे ) ( वाच० ) ।
 
मदः— मद्यपानादिजन्यः अवस्थाविशेषः ( मिताक्षरा अ० २।२१४ )।
मद्यम् – मदहेतुर्द्रवद्रव्यविशेषः । यथा सर्वे मद्यमपेयम् ( आपस्तम्बसू०
१९५/१७/२१ ) इत्यादौ । मुख्यतो मद्यानि द्वादशविधानि । माध्वीकं
पानसं द्राक्षं खार्जूरं तालमैक्षवम् । मैरेयं माक्षिकं टाङ्क माधूकं नारि-
केलजम् ॥ मुख्यमन्नविकारोत्यं मद्यानि द्वादशैष तु इति । अत्र
व्युत्पत्ति: माद्यत्यनेन ( करणे यत् ) इति मद्यम् ।
मधुप्रतीकाः – यथा मधुन एकदेशोपि स्वदते तथा प्रत्येकमेव ताः सिद्धयः
-
स्वदन्त इति मधुप्रतीकाः । ताश्च मनोजवित्वं विकरणभावः प्रधान-
जयश्चेति त्रिविधाः ( सर्व० सं० पृ० ३८५ पातझ० ) ।
 
मधुभूमिकः – ( योगी ) ऋतंभरप्रज्ञः ( सर्व० सं० पृ० ३८४ पातञ्ज० ) ।
मधुमती -अभ्यासवैराग्या दिवशादपास्तरजस्त
मोलेशसुखप्रकाशमयसत्त्वभा-
वनयानवद्यवैशारद्यविद्योतनरूपऋतंभरप्रज्ञा ( सर्व० सं० पृ० ३८४
 
पणपञ्चशतम् ( मिताक्षरा व्य०
 
पातञ्ज ० ) ।
 
-
 
मध्यमसाहसम् - चत्वारिंशदधिकं
श्लो० १५३ ) ।