2023-02-20 00:56:15 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
चारविषयत्वं तु साभ्यत्वेन फलान्यत्वेन वा विधेयतया कृतिविषयत्वम्
( म० वा० पृ० १ ) ( दि० १ मङ्ग० पृ० ५ ) । अलौकिकत्वं
विधिमन्तरा रागादिप्राप्त भिन्नत्वम् (नील० १ पृ० २ ) । अत्र सांख्य-
सूत्रम् मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति ( सां० सू०
अ० ५ सू० १ ) इति । अत्रेदं बोध्यम् । मङ्गलं सफलमित्यनेनानु-
मानेन सफलत्वं सिद्ध्यः समाध्यादिरूपमुपस्थितफलमादायैव पर्यवस्यति
( म० प्र० १ ) ( म० वा० १ ) । तथा ह्यनुमानम् मङ्गलं समाप्ति-
फलकम् समाहयन्याफलकत्वे सति सफलत्वात् ( दि० १ मङ्गल० पृ०
४ ) इति । अनेनानुमानेन समाप्तिफलकत्वं सिद्ध्याकर्तव्यत्वं साधयितुं
क्षमते । तथाहि मङ्गलं कर्तव्यम् समाप्तिकलकत्वात् इति ( नील० १
मङ्ग० पृ० २ ) । मङ्गलं च त्रिविधम् । तदुक्तम् आशीर्वादनमस्कारवस्तु-
निर्देशमेदतः । मङ्गलं त्रिविधं प्रोक्तं शास्त्रादीनां मुखादिषु ॥ (सि० च० )
इति । अत्र वस्तुनिर्देशच पुण्यजनक शब्दनिबन्ध: पुण्यकृत्स्तुतिप्रतिपादक-
शब्दो वा ( म० वा० पृ० १० ) । [ ख ] नव्याः चिन्तामणि-
कृतस्तु विघ्नोत्सारणासाधारणं कारणम् ( म० प्र० १ १०२ ) इत्याहुः ।
एतन्मते मङ्गलत्वं च तद्विघ्नोपशमहेतुखेन वेदविहितत्वम् ( चि० १
मङ्ग० पृ० १०१ ) । तथा चैतन्मते मङ्गलस्य फलं विघ्नध्वंस एव ।
समाप्तिस्तु बुद्धिप्रतिभादिविघ्नसंसर्गाभावरूपस्वकारणकलापाद्भवति इति
विज्ञेयम् (नील० १ मङ्गल० पृ० २ ) (मु० १ मङ्गल० ) ( दि० १
मङ्ग० ८-९ ) । विघ्नोत्सारणेत्यादिलक्षणं च शशधरीये न्यायसिद्धान्त-
दीपे उक्तम् । तदर्थश्च समाप्तिप्रतिबन्धकदुरितविशेषो विघ्नस्तस्योत्सारणं
नाशस्तदसाधारणं कारणं मङ्गलपदवाच्यम् ( म० प्र० १ पृ० २ ) इति ।
अत्र किरणावली । मङ्गलमाचरेत् इति न विधिः । किं तु नमस्कारादि-
कमाचरेत् इति प्रत्येकमेव विधिकल्पनम् इत्यस्मद्गुरव (किर० पृ० ६)
इति । तत्त्वचिन्तामणौ चोक्तम् । मङ्गलमाचरेत् इति न विधिः । किंतु
निर्विघ्नसमाप्तिकामः प्रारिप्सितविघ्नोपशमनकामो वा देवतास्तुतिमाचरेत्
इत्यादिः प्रत्येकमेव विधिः । मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।
६३८