2023-02-20 00:56:15 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
त्फलम् । श्रौतात्साङ्गात्कर्मणः फलावश्यंभावनियमात् । नतु विघ्नध्वंसो
मङ्गलस्य फलम् । तस्यापुरुषार्थत्वात् ( वै० उ० १११।१ ) इति ।
अत्र शङ्का । कृतमङ्गलस्यापि कादम्बर्यादौ फलादर्शनात् अकृतमङ्गल
स्यापि किरणावल्यादौ समाप्तिरूपफलदर्शनाच ग्रन्थारम्भे मङ्गलं नानु-
ष्ठेयम् । नहि निष्फले प्रेक्षावान् अवर्तते इति । अत्रोत्तरम् । मङ्गला-
करणस्थले किरणावल्यादौ जन्मान्तरीयस्य मङ्गलस्य मङ्गलकरणस्थले
कादम्बर्यादौ चाङ्गवैगुण्यस्य कल्पनया सफलत्वं निश्चीयते इति । जन्मा-
न्तरीयमङ्गलानुमानं तु इदम् मङ्गलम् आरब्धकर्माङ्गम् कर्मार्थितया
शिटैस्तत्पूर्व क्रियमाणत्वात् फलान्तराभावे सति फलवत्कर्मारिप्समानेन
नियमतस्तत्पूर्व क्रियमाणत्वाच्च दर्शे प्रयाजवत् ( चि० १ मङ्गलवा० पृ०
१९ ) इति । अत्र मङ्गलस्य स्वाभिमतहेतुत्वे तथाविधशिष्टाचारानुमित-
श्रुतिरेव मानम् ( चि० १ मङ्गलवा० पृ० १५) । अनुमितश्रुतिश्च
समाप्तिकामो मङ्गलमाचरेत् इति । अत्र श्रुत्यनुमानं तु नमस्कारादिकम्
मङ्गलम् वेदबोधितसमाप्तिसाधनताकम् समात्युद्देश्यकालौकिका विगीत-
शिष्टाचार विषयत्वात् दर्शादिवत् इति । अत्र यो यदुद्देश्यकाविगीत-
शिष्टाचारविषयः स वेदबोधिततत्साधनताकः यथा दर्शः इति सामान्यतो
व्याप्तिद्रष्टव्या ( मू० म० १ मङ्गल० पृ० १६ ) । अथवा मङ्गलं वेद-
बोधितकर्तव्यताकम् अलौकिका विगीत शिष्टाचार विषयत्वाद्दर्शश्राद्धवत्
(त० दी ० १ मङ्ग० पृ० २ ) इति । मङ्गलस्य कर्तव्यत्वे प्रमाणमनुमान-
मपि । तच्च मङ्गलं सफलम् अलौकिका विगीत शिष्टाचारविषयत्वात् अग्नि-
होत्रवदिति । अत्र शिष्टश्च वेदप्रामाण्याभ्युपगन्ता । वेदप्रामाण्यानभ्युपग-
मविरोधिमस्वमिति यावत् । विरोधी तु सर्वे वेदाः प्रमाणमिति ज्ञानं
तादृश संस्कारच ( म० प्र० १ ) ( मू० म० १ मङ्गल० पृ० १६ ) ।
सफलत्वं च बलवदनिष्टाननुबन्धीष्टफलकत्वम् । अविगीतत्वं तु बलवद-
निष्टाननुबन्धित्वम् । तच्च स्वजन्येष्टापेक्षयाधिकानिष्टजनकत्वं यद्यत् तद्भि-
नत्वम् ( म० वा० पृ० १ ) । अथवा धर्मशास्त्रानिषिद्धत्वम् ( नील०
१ मङ्ग० पृ० २ ) । शिष्टत्वं चेष्टसाधनत्वांशे अभ्रान्तत्वम् । आ-
▸