2023-02-20 00:56:14 by ambuda-bot
This page has not been fully proofread.
६३६
न्यायकोशः ।
इदं रजतम् इति भ्रमे च विषयताद्वये व्यधिकरणप्रकारावच्छिन्नत्वस्य
विषयत्व प्रतियोगित्वस्याविरोधात् समूहालम्बने च विषयताभेदानाप्रमाल-
क्षणे अव्याध्यतिव्याप्ती ( चि० १ प्रामा० पृ० ४२१-४२२ ) । सर्वत्र
स्वपदेन विशेष्यता । [ घ ] स्वसमानाधिकरणप्रकारानवच्छिन्न विषयता-
प्रतियोगिज्ञानम् ( चि० १ प्रामा० पृ० ४१८ - ४२० ) । स्वसमाना-
धिकरणेति स्वसमानाधिकरणधर्मप्रकार केत्यर्थः । प्रकारता च विशेष्य-
तावच्छेदकतातिरिक्ता प्राया। तेन इदं रजतम् इति शुक्तिमात्र विशेष्यक-
भ्रमे नाव्याप्तिः । विशेष्यतावच्छेदकांशे भ्रमरूपम् विधेयांशे च प्रमारूपं
ज्ञानं न लक्ष्यम् इति न तत्र दोष इति भावः ( मू० म० १
प्रामा० पृ० ४२२) । ३ जलनिर्गमस्थानम् । ४ भ्रमणम् इति
काव्यज्ञा आहुः ।
भ्रमणम् – ( कर्म ) गतिविशेषः । अयं च गमनेन्तर्भवति ( भा०प०
श्लो०
०७) ।
भ्रान्तिः - १ भ्रमः ( अमरः ) । २ योगान्तरायश्चित्तविक्षेपो भ्रान्तिः इति
योगशास्त्रज्ञा आहुः (पात० पा० १ सू० ३०) । अत्रोच्यते व्यवहार-
विषये पाण्मासिके तु संप्राप्ते भ्रान्ति: संजायते नृणाम् । धात्राक्षराणि
सृष्टानि पत्रारूढान्यतः पुरा ॥ ( ज्यो० त० ) ( वाच ० ) इति ।
भ्रान्तिदर्शनम् – अतस्मिद्धिः ( सर्व० सं० पृ० ३५५ पात० ) ।
-
म.
मङ्गलम् - १ [ क ] विघ्नध्वंसद्वारकार्थसमाप्तिफलकं कर्म । तच्च यथा
ग्रन्थारम्भे कर्तव्यमाशीर्वादाद्यन्यतमम् निधाय हृदि विश्वेशं विधाय गुरु-
वन्दनम् ( त० सं० ) इत्यादि । मङ्गलत्वं च प्रतिबन्धकान्यस्य सतः
प्रारिप्सित प्रतिबन्धक दुरित निवृत्त्यसाधारणकारणत्वम् (कि० व० पृ० ६) ।
अथवा विघ्नोत्सारणासाधारणकारणले सति साध्यत्वम् ( न्या० सि०
दी० ० पृ० ३ ) । यद्वा मङ्गलत्वं निर्विघ्नमारब्धं परिसमाप्यताम् इति
कामनया वेदविहितत्वम् ( चि० १ मङ्ग० पृ० १०१ ) । अयं कल्पः
प्राचीनमताभिप्रायेण । तन्मते समाप्तिरेव सुखसाधनतया पुरुषार्थत्वा-