This page has not been fully proofread.

६३४
 
न्यायकोशः ।
 
भोजनम् – गलाधो नयनम् । तच्च [ क ] गलाघःसंयोगाषच्छिन्नक्रियानु-
कूलव्यापारः । यथा ओदनं भुङ्ग इत्यादौ धात्वर्थः । अत्र भुजधात्वर्थ-
घटके तादृशक्रिया रूपफल एव ओदनवृत्तित्वान्वयः ( ग० व्यु० का० २
पृ० ४३ ) । [ ख ] प्राथस्तु कठिनद्रव्यस्य गलबिलाधःसंयोजनं
भोजनम् इत्याहुः ।
 
-
 
भ्रमः- -१ ( अप्रमा ) [ क ] यत्र यन्नास्ति तत्र तस्य ज्ञानम् । समुदा-
यार्थश्च तदभाववन्निरूपिततन्निष्ठविषयताप्रतियोगि ज्ञानम् इति । अत्र
स्मृतेरपि भ्रमतया अनुभवत्वमपहाय ज्ञानत्वप्रवेश : ( मु० म० १
प्रामा० पृ० ४०५) । भ्रमश्च दोषाजन्यते । भ्रमलक्षणं तु स्वानुयो-
गिनिष्ठविशेष्यतानिरूपितत्व स्वप्रतियोगिनिष्ठत्व स्वावच्छिन्नत्व एतत्रितय-
संबन्धेन संबन्ध विशिष्टान्यप्रकारताशालिज्ञानत्वम् ( ग० अव० हेतु ० )
इति । अत्र स्वपदार्थस्तु विशेष्यविशेषणयोर्भासमानः संबन्धो ज्ञेयः ।
अत्रेदमवधेयम् । विपर्ययोपि प्रत्यक्षानुमानविषय एव भवति । प्रत्यक्ष-
विषये तावत् प्रसिद्धानेकविशेषस्यापि पित्तकफानिलोपहतेन्द्रियस्यायथार्थ-
लोचनात् संप्रत्यर्सनिहित विषय विज्ञानजसंस्कारापेक्षादात्ममनसोः संयोगा-
दधर्माच्चातस्मिन् तत् इति प्रत्ययो विपर्ययः । यथा गव्येव अश्वः इति ।
असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति । यथा अपगतघनपटलमचल-
जलनिधिसदृशमम्बरम् अञ्जनचूर्णपुजश्यामं शार्वरं तमः इति । अनुमान-
विषयेपि बाष्पादिभिर्धूमाभिमतैर्वह्वयनुमानम् गवयविषाणदर्शनाच्च गौः
इति त्रयीदर्शन विपरीतेषु शाक्यादिदर्शनेषु इदं श्रेयः इति मिथ्याप्रत्ययो
विपर्यय: ( प्रशस्त० पृ० २४ ) । [ ख ] तदभाववति तत्प्रकारक-
ज्ञानम् ( चि० १ प्रामा० पृ० ४०१ ) ( त० प्र० १ ) ( त० दी० ) ।
[ग] ] अतस्मिन् तत् इति प्रत्ययः ( न्या० वा० १ पृ० २६ )
( भा० प० लो० १२८ ) ( त० मा० पृ० ४० ) । [ध ] विशे-
ब्यताव्यधिकरणप्रकारकं ज्ञानम् ( म० प्र० ४ पृ० ७३ ) । यथा
पुरोवर्तिन्येवारजते शुक्त्यादौ रजतारोपः । इदं रजतम् इति ज्ञानम्
( त० मा० १० ४० ) ( त० प्र० १ ) ( त० दी० ) । यथा वा
 
M
 
-