This page has not been fully proofread.

न्यायकोशः ।
 
विशिष्टस्यैव विशेषणस्य भेदकत्वम् । तदुक्तम् स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः
प्रस्तुतं पदैः । गुणद्रव्य क्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ ( अमर ०
का० ३ वर्ग० १ श्लो० २ ) इति । यथा वा पृथिवी इतरेभ्यो
भिद्यते गन्धवत्त्वादित्यादौ गन्धवस्त्वरूपं पृथिवीलक्षणं जलादिमेदकम् ।
२ भेदकारकम् । यथा कुठारो भिनत्तीत्यादौ कुठारो मेदकः । अत्र
श्रीमध्वाचार्यैरुच्यते विद्यमानस्य भेदस्य ज्ञापको नैव कारकः
( उपा० ख० ) इति ।
 

 

 
भोगः – १ [ क ] सुखदुःखान्यतरसाक्षात्कारः ( त० मा० पृ० ४ )
( त० दी० १ पृ० ७ ) ( वाक्य ० ) । [ ख ] स्वसमवेतसुखदुःखा-
न्यतरलौकिक साक्षात्कार ( प्र० प्र०) । यथा आमनो भोगायतनं शरीरम्
( त० दी० १ ) इत्यादौ भोगः । अत्र वेदान्तिनस्तु आनन्दमात्रानुभवो
भोगः । यथा ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ ( ब्रह्मसू० ४/४/२२ )
इत्यादौ इत्याहुः । अत्र भविष्यत्पुराणम् मुक्ताः प्राप्य परं विष्णुं तद्भोगाँ-
ल्लेशत: कचित् । बहि: ष्ठान् भुञ्जते नित्यं नानन्दादीन् कथंचन ॥ (मध्व-
भा० ४।४।४ ) इति । २ रव्यादीनां राशिगतिकालः इति ज्योतिर्विद
आहुः । अत्रोच्यते अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः
( तिथि० त० ) इति । ३ सर्पदेहः इति काव्यज्ञा आहुः ।
भोगायतनम् –भोगस्यावच्छेदकम् । यथा यदवच्छिन्नात्मनि भोगो जायते
तद्भोगायतनम् ( त० दी० १) इत्यादौ शरीरावच्छिन्न आत्मनि भोगो
जायत इति शरीरं भोगायतनम् । तच्च भोगायतनम् स्थूलदेहः इति
सांख्या आहुः । अत्र सूत्रम् भोक्तुरधिष्ठानाद्भोगायतननिर्माणम् । अन्यथा
पूतिभावप्रसङ्गात् (सांख्यसू० अ० ५ सू० ११४ ) इति । अत्र केचि-
द्वेदान्तिन आहुः । भोगसाधनं च लिङ्गशरीरमेव । तथा चोक्तम् पञ्चप्राण-
मनोबुद्धिदशेन्द्रिय समन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥
इति । सांख्यमते तु पञ्चप्राणस्थले पञ्चभूतमात्राः इति भेदः । स्थूल देहस्य
भोगत्वं तु भोगावच्छेदकत्वात् उपचारात् इति बोध्यम् । अत्र सूत्रम्
तदधिष्ठानाश्रये देहे तद्वादात्तद्वादः (सांख्यसू० अ० ३ सू० ११) इति ।
 
८० न्या० को०