This page has not been fully proofread.

न्यायकोचः ।
 
६३१
 
बादोबधारिते । मूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ ( न्या०
म० ख० ४ पृ० ३१ ) । तदर्थश्च तद्धानात् तयोः प्रमाणान्तरविरोध-
प्रमाणान्तरप्राप्त्योः हानात् अभावात् इति । यथा इन्द्रो वृत्राय वज्र-
मुदयच्छत् ( श्रुतिः ) ( म०प्र० ४ पृ० ६४ ) इत्यादिः । अयं
भावः । अस्य वृत्रं प्रतीन्द्रबनोद्यच्छनाभावावगाहिप्रमाणान्तरस्यादर्शनात्
न तद्बोधने प्रमाणान्तरविरोधः । नापि प्रमाणान्तरावगतार्थप्रतिपादक-
त्वम् । वृत्रं प्रतीन्द्रवज्रोद्यच्छनप्रतिपादक प्रमाणान्तरस्यादर्शनात् । अतो
भूतार्थवादत्वम् ( लौ० मा० पृ० ५५ ) । यथा वा वज्रहस्तः पुरंदरः
इत्यादिश्च ( त० कौ० ) इत्याहुः । अविरुद्धाप्राप्तार्थबोधकः शब्दः
अर्थवाद इत्यन्ये वदन्ति ।
 
-
 
भूमिका – १ प्रयोजनसंपादिका युक्तिः ( राम० ) । यथा विशेषपदस्य
प्रयोजनमभिधातुं भूमिकामाह इत्यादौ ( दि० १ ) । यथा वा तदेवो-
पपादयितुं भूमिकां रचयति इत्यादौ ( सि० च० २ पृ० २४ ) ।
२ नाव्ये अभिनेयपात्रादि प्रवेशान्तरसूचिका रचना इति नाट्यकलाभिज्ञा
आहुः । अत्रोच्यते अन्यरूपैर्यदन्यस्य प्रवेशस्तत्र भूमिका इति ।
रङ्गसंचारिपात्राणां स्थानकं भूमिकां विदुः इति च ।
 
भूयस्त्वम् – १ [ क ] इतरद्रव्यानभिभूतैः पार्थिवावयवैरारब्धत्वम् ।
पारिभाषिकं चैतद्भूयस्त्वं समानतपि ( वै० उ० ८/२(५ ) । अत्र
व्याकरणम् । अतिशयेन बहु: । ईयसुन् । बहोर्लोपो भू च बहो: ( पा०
सू० ६।४।१५८) इत्यनेनेयसुन्प्रत्ययस्थस्यैकारस्य लोपः बहुशब्दस्य
भू इत्यादेशश्च । तेन भूयस् इति रूपं सिद्ध्यति । तस्य भावः भूय-
स्त्वम् इति । [ख] जलाद्यनभिभूतभागारब्धत्वम् (वै० वि० ८/२/५)।
यथा भूयस्त्वाद्गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः (वै० सू० ८।२।५ )
इत्यादौ घ्राणेन्द्रियस्य भूयस्त्वम् । २ पुनःपुनः परिशीलनवत्त्वम् । यथा
भूयोदर्शनमित्यादौ ।
 
-
 
भूयोदर्शनम् – साभ्यसाधनयोर्व्याप्तिग्रहे जनकं तयोर्भूयः सहचारदर्शनम् ।
-
यथा घूमधूमध्वजयोर्नानास्थानावच्छेदेन सामानाधिकरण्यावगाहिज्ञानम् ।