2023-02-20 00:56:13 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
Y
( ईशानसंहिता ) (बाच ० ) इति । अत्रायं प्रसङ्गोपात्तो विशेषः ।
भौतिकं च भूतारब्धम् । यथा पाश्चभौतिको देहः इत्यादौ ( सां० सू०
अ० ३ सू० १७ ) । अत्र स्थूलशरीरे विप्रतिपत्तिः । स्थूलशरीरं
चातुर्भौतिकमित्येके । ऐकभौतिकमित्यपरे ( सांख्य० सू० अ० ३
सू० १८-१९) । सार्वभौतिकम् इति पूर्णप्रज्ञाचार्या: प्राडु: ( म०
सू० भा० ३ १/२) । सांख्यास्तु शरीरं न पाञ्चभौतिकम् किं तु पृथि-
व्युपादानकमेव इत्याहुः । मायावादिवेदान्तिनस्तु तेजोबन्नात्मकमित्येवं
त्र्यात्मकमेव इत्यङ्गीचक्रुः । ३ सत्यम् । यथा भूतमप्यनुपन्यस्तं हीयते
व्यवहारतः ( याज्ञ० स्मृ० २११९) इत्यादौ । ४ तत्त्वानुसंधानम् । यथा
छलं निरस्य भूतेन ( याज्ञ० स्मृ २ । १९ ) इत्यादौ । ५ पिशाचम् इति
मान्त्रिका वदन्ति । यथा ब्रह्मविद्या क्षत्रविद्या नक्षत्रविद्या भूतविद्या सर्पविद्या
( छा० उप० ) इत्यादौ । भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षः पितृपि-
शाचनागमहायुपसृष्टचेतसां शान्तिकर्म बलिहरणादि ग्रहोपशमनार्थम्
इति । सा च भूतविद्या तत्रोत्तरतन्त्रे दर्शिता । ६ कृष्णचतुर्दशी इति
मौहूर्तिका आहुः । ७ प्राणी । ८ प्रधानम् । यथा भूतमियं ब्राह्मण्य
स्मिन्गृहे । ९ विपरीतम् । यथा भूतमाह । १० अतिक्रान्तकालः ।
यथा भूतो धात्वर्थः । ११ देवताविशेषः । यथा भूतेभ्यो बलिः ।
१२ चेतनमात्रम् । यथा न हिंस्याद्भूतानि । १३ प्राप्तिवचनम् । यथा
महद्भूतश्चन्द्रमाः । १४ उपमा । यथा काव्यभूतः । १५ उत्पन्नः । यथा
देवदत्तस्य पुत्रो भूतः ( मनुस्मृ० ४ । ३२ मेघातिथि: टी० ) ।
भूतार्थवाद: -(अर्थवादः ) १ अतत्कालेपि तद्गुणज्ञापकः शब्दः । यथा
जरायामध्ययं शूरः इत्यादि ( सि० च० पृ० ३३ ) । यथा वा राज्य-
भ्रंशेप्यमात्यैः अयं राजा इति प्रयुज्यते ( त० प्र० ख० ४
पृ० १२४ ) । विधिसममिव्याहाराभावेयमप्यर्थवादः संभवति इति
बोध्यम् (गौ० वृ० २११/६५ ) । २ मीमांसकास्तु प्रमाणान्तरविरोध-
सत्याप्तिर हितार्थबोधको बादः । तदुक्तम् विरोधे गुणवादः स्यात् अनु-
1